________________
Y
४
४
x
१६
वाचकमुख्योऽप्याह'दुष्प्रतिकारौ माता-पितरौ स्वामी गुरुश्च लोकेऽस्मिन्। तत्र गुरुरिहामुत्र च, सुदुष्करतरप्रतीकारः॥१॥' (प्रशमरतिः ७१) 'गुर्वायत्ता यस्मा- च्छास्त्रारम्भा भवन्ति सर्वेऽपि। तस्माद्गुराधनपरेण हितकाङ्क्षिणा भाव्यम्॥२॥' (प्रशमरतिः ६९) इति गाथार्थः॥१॥ अथ यथोक्तगुरुगुणषट्त्रिंशत्षट्त्रिंशिकासु प्रथमषट्त्रिंशिकासूत्रगाथामाहचउविहदेसणकहध-म्मभावणासारणाइकुसलमई। चउविहचउझाणविऊ, छत्तीसगुणो गुरू जयउ॥२॥
व्याख्या - चतुर्विधासु देशनासु, चतुर्विधासु कथासु, चतुर्विधेषु धर्मेषु, चतुर्विधासु भावनासु, चतुर्विधासु स्मारणादिषु कुशला निपुणा मतिर्यस्येति स तथा। तथा प्रत्येकं प्रत्येकं चतुर्विधानि चत्वारि ध्यानानि वेत्तीति चतुर्विधचतुर्ध्यानविदिति षट्त्रिंशद्गुणो गुरुर्जयत्विति समासार्थः।
व्यासार्थस्त्वयम्- तत्र चतुर्विधा देशना। यथा- आक्षेपिणी१ विक्षेपिणीर संवेगिनी३ 'निर्वेदिनी४ चेति। उक्तं च -
'अक्खेविणी अ विक्खे-विणी य संवेअणी तहा चेव। निव्वेअणिआ एसा, चउव्विहा देसणा होइ॥१॥ आयारं ववहारं, हेऊदिटुंत दिट्टिवायाई। देसिजइ जीए सा, अक्खेविणिदेसणा पढमा॥१॥ परमयविऊहिं परमय-वयणेहिं जीइ परमयाउ जणो। विक्खेविजइ एसा, विक्खेविणिदेसणा बीआ॥२॥ उवसमविवेगसंवर-समयासंतोससंभवं सुक्खं। वण्णिजइ जीए सा, संवेअणिदेसणा तइआ॥३॥
१. अ-ब-पुस्तके 'निर्वेदनी'। चतुर्विधा देशना