SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ गुणवानेव तत्त्वतो विशुद्धसम्यक्तत्त्वावबोधजनकसद्धर्मदेशनादिसमर्थो भवति। यदाह'आयारे वटुंतो, आयारपरूवणाअ संकेतो। आयारपरिन्भट्ठो, सोऽसुद्धपरूवणे भइओ॥१॥' 'गुणसुट्ठिअस्स वयणं, महुघयसित्तू व्व पावओ भाइ। गुणहीणस्स न रेहइ, नेहविहूणो जह पईवो॥२॥'(संवेगरंगशाला ८९०७) अपि च'वामात्रसाराः परमार्थबाह्या, न दुर्लभाचित्रकरा मनुष्याः। ते दुर्लभा ये जगतो हिताय, धर्मे स्थिता धर्ममुदाहरन्ति॥१॥ केचित् प्रवालमिव रङ्गभृतः स्वयं स्युः, केचिच्च चूर्णकणवत्पररङ्गयोग्याः। कश्मीरजातमिव सौरभपूरगौरा, धन्याः पुनः स्वपररञ्जकतां भजन्ति॥२॥ आत्मप्रबोधविरहादविशुद्धबुद्धेरन्यप्रबोधनविधिं प्रति कोऽधिकारः। सामर्थ्यमस्ति तरितुं सरितो न यस्य, तस्य प्रतारणपरा परतारणोक्तिः॥३॥' अतो गुणवानेव गुरुरालोक्यते। ते च गुणा ज्ञानदर्शनचारित्रादयो यद्यप्यमेयास्तथाऽपि षट्त्रिंशत्षट्त्रिंशत्सङ्ख्यया कलितानां कतिपयगुरुगुणानां याः षट्त्रिंशत्सङ्ख्याकाः षट्त्रिंशिकास्ताः कीर्तयिष्यामि। ननु किमित्येवं गुरुगुणाः कीर्त्यन्ते ? उच्यते, गुणवान् गुरुरेव सम्प्रति दुष्षमान्धकारसम्भारतिरोहितसन्मार्गाणां प्राणिनां दीप्रप्रदीपकल्पत्वादनल्पगौरवार्हो भवति। यतः 'गुरुगौरवाो गुरूपक्रियातः, कलौ देवतोऽपीति सम्यग् मतिमें। तमिश्रातमिश्रापहारी कृशानु-वृहद्भानुरित्युच्यते किं न लोकैः ?॥१॥' अपि च'यद्वत्सहस्रकिरणः, प्रकाशको निचिततिमिरमग्नस्य। तद्वद्गुरुरत्र भवेद्, अज्ञानध्वान्तपतितस्य॥२॥' (योगशास्त्रवृत्तिः ९६९) १. आचारे वर्तमान आचारप्ररूपणायां सङ्क्रान्तः। आचारपरिभ्रष्टः अशुद्धप्ररूपणायां भाज्यः॥१॥ २. ब- पुस्तके 'चित्रकथा'। ३. अ-क-पुस्तके 'दैवतोऽपीति'॥ ...१५८... नमस्काराभिधेयादि
SR No.022237
Book TitleGurugunshat Trinshtshatrinshika Kulak
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy