SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ तत्पट्टनायकाः, श्रीहेमतिलकसूरयस्तदादेशात् । श्रीरत्नशेखराख्यः, शिष्यो लिखति स्म विवृतिमिमाम् ॥ ३॥” इत्येतत्पद्यत्रयस्य च निर्वर्णनेन बृहद्गच्छालङ्कारहारोपमवादीन्द्रचूडामणिश्रीमद्देवसूरिसन्तानीय श्रीजयशेखरसूरिशिष्य श्रीवज्रसेनसूरीणां शिष्याः श्रीहेमतिलकसूरिपट्टप्रतिष्ठिताः श्रीरत्नशेखरसूरय एवास्य प्रणेतार इति प्रकटमेवावसीयते । अस्य सविवृतिकुलकस्य प्रणेतारः कस्मिन् कालेऽभूवन् ? इति जिज्ञासायां जातायां यद्यपि प्रकरणकारैरस्मिन् प्रकरणे साक्षात् स्वसत्तासमयः क्वापि नोपनिबद्धः तथाऽपि एतन्मुनिनायकनिर्मितप्राकृतश्रीपालकथाऽवसानगतायाः " तस्सीसहेमचंदेण, साहुणा विक्कमस्स वरिसम्मि | चउदस अट्ठावीसे, लिहिया गुरुभत्तिकलिएणं ॥ ४३ ॥” इत्येतद्गाथाया, अवलोकनेन विक्रमादित्यसम्बन्धिचतुर्दशशतोपर्यष्टाविंशतितमे वर्षे प्रथमादर्शे लिखितत्वेन सूरिशेखराणाममीषां सत्तासमयोऽपि वैक्रमीये पञ्चदशे शते निर्विरोधं निर्णीयते । यद्यपि स्वोपज्ञश्राद्धविधिश्रावकप्रतिक्रमणसूत्रवृत्त्याचारप्रदीपाद्यनेकग्रन्थस्य कर्तारः श्रीमद्रत्नशेखरसूरय एतत्कुलकविवृतिकारानन्यसमयसत्ताकास्तथापि अनन्तरोक्तग्रन्थप्रशस्तौ बृहत्तपागच्छनायकश्रीमन्मुनिसुन्दरसूरीश्वराणां शिष्यत्वेन निरूपणात् प्रस्तुतकुलकविवृतिकारेभ्यो भिन्ना एवेति स्फुटमवगम्यते । एतन्मुनिपतिनिर्मितावुक्तव्यतिरिक्तौ स्वोपज्ञविवृतिसमलङ्कृतौ गुणस्थानक्रमारोहक्षेत्रसमासौ दृश्येते, परमेतन्महाशयविरचिता अपरे ग्रन्थरत्ना भवेयुर्न वेति तेषां दृष्टश्रुताद्यभावेन निर्णेतुं न शक्यते । अस्य विषयविवेचनं तु पृथक् सम्पादितमस्ति, तस्मात्तदर्थिना तदवलोक नीयम् । अस्य संशोधनसमये द्वे पुस्तके अ-क-सञ्ज्ञके पत्तनीयसङ्घस्य पुस्तकभाण्डागारसत्के पुरातने षड्विंशतिपञ्चविंशतिपत्रात्मके, एकं पुनः ब - सञ्ज्ञकं प्रज्ञांसश्रीमद्वीरविजयमुनिसत्कं पुरातनं अष्टात्रिंशत्पत्रात्मकम्, एकं तु ड सञ्ज्ञकं भावनगरीयसङ्घस्य चित्कोशसत्कं पुरातनं त्रयोदशपत्रात्मकम्, एकं च प्रवर्त्तकश्रीगुरुगुणषट्त्रिंशत् षट्त्रिंशिकाकुलकप्रस्तावना ...१५०...
SR No.022237
Book TitleGurugunshat Trinshtshatrinshika Kulak
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy