SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ कूपदृष्टान्तक्शिदीकरणं सञ्जाता,' या समूहालम्बनेच्छोच्यते । परमार्थतस्तु स अनुभवो भ्रान्तः, किन्तु यथा व्यञ्जनावग्रहार्थावग्रहेहापायधारणादयः क्रमशो भवन्तोऽपि समकमेव भवन्तोऽनुभूयन्ते, तथैवात्र बाह्यविभूतेरभ्यन्तरविभूतेश्चेच्छाद्वयं क्रमशो भवदपि समकमेव भवदनुभूयते । ततश्च यस्मिन्समये बाह्यविभूतेरिच्छा, तस्मिन्समये सा प्रार्थना निदानम्, यस्मिंश्च समयेऽभ्यन्तरविभूतेरिच्छा:, तस्मिन्समये साप्रार्थनाऽनिदानम् इति स्पष्टमेवेति । यशो. : भावे वाऽऽसातां निदानत्वाऽनिदानत्वे अब्याप्यवृत्तिजाती । चन्द्र. : ननु यथा पूर्वं समूहालम्बनं ज्ञानं स्वीकृतमेव, तथैव समूहालम्बनेच्छाऽपि स्वीकरणीयैवेति। किञ्च व्यञ्जनावग्रहादयः क्रमशो भवन्तीति सत्यम्, परन्तु तत्र एकस्मिन्नपि समये अवग्रहादौ 'कमल' इत्यादिरूपाणां बहूनामक्षराणां बोधस्तु स्वीकृत एव, एवमेवात्रापि एकस्मिन्नपि समये समूहालम्बनेच्छा किमर्थं न स्वीक्रियेतेत्यत आह भावे वा यदि हि तस्या भाव: स्वीक्रियते, तर्हि स्वीक्रियतां नाम । ननु तर्हि तस्यामिच्छायां निदानत्वमनिदानत्वमुभयं स्यात्, औदयिकभावप्रार्थनात्वस्य क्षायिकभावप्रार्थनात्वस्य चोभयस्य सत्त्वादित्यत इष्टापत्तिं कुर्वन्नाह - आसातां निदानत्वानिदानत्वे अव्याप्यवृत्तिजाती इत्यादि । एकस्यामेव इच्छायां इच्छात्वं तावद् वर्तत एव, परन्तु तत्र औदयिकभावप्रार्थनारूपो योंऽशः, तदवच्छेदेन तस्यां इच्छायां निदानत्वजातिरेव, न तु अनिदानत्वजातिः, क्षायिकभावप्रार्थनारूपो योंऽशः, तदवच्छेदेन तस्यामिच्छायां अनिदानत्वजातिरेव, न तु निदानत्वजातिः । एवं च यथा वृक्षे शाखावच्छेदेन कपिसंयोगोऽस्ति, मूलावच्छेदेन नास्तीत्येवंरीत्या स संयोगः अव्याप्यवृत्तिः, वृक्षे सर्वावच्छेदेन अविद्यमानत्वात् । एवमेवात्र निदानत्वानिदानत्वेऽव्याप्यवृत्तिजाती, एकस्यां इच्छायां सर्वावच्छेदेनाविद्यमानत्वात् । यशो. : इत्यादिः प्रमाणार्णवसंप्लवव्यसनिनां गोचरः पन्थाः । थन्द्रः ननु न्यायमते संयोगोऽव्याप्यवृत्तिरभिप्रेतः, न तु जाति:, जातिस्तु स्वाधिकरणे व्याप्यैव वर्तते, न तु अव्याप्य, ततश्च जात्योरव्याप्यवृत्तित्वकथनं कथं घटते ? इति अत आह - इत्यादि निदानत्वानिदानत्वे अव्याप्यवृती इत्यादिः प्रमाणार्णवसंप्लवव्यसनिनां = स्याद्वादरूपे समुद्रे संप्लवस्य व्यसनं येषां ते प्रमाणार्णवसंप्लवव्यसनिनः, तेषां गोचर: विषयभूतः पन्थाः = मार्गः । अयमाशयः – एकान्तवादिनो हि नैयायिकादयो न जानन्त्येव स्याद्वादगम्यं पदार्थम्, ते तु ‘जाति: व्याप्यवृत्तिरेव, संयोगोऽव्याप्यवृत्तिरेव' इत्यादीन् एकान्तान् गृह्णन्ति । परन्तु स्याद्वादरूपसमुद्रावगाहिनां तु स्याद्वादपरिकर्मितमतित्वात् ' जाति: अपेक्षया व्याप्यवृत्तिः, अपेक्षयाऽव्याप्यवृत्ति: ' इत्यादिरूपः सम्यग्बोधो भवत्येव। तथा च सूक्ष्मोऽयं पदार्थ एकान्तवादिभिः न बुध्यतां नाम, स्याद्वादिभिस्तु स बुध्यत एवेति । 903:
SR No.022223
Book TitleKupdrushtant Vishadikaranam
Original Sutra AuthorN/A
AuthorChandreshakharvijay
PublisherKamal Prakashan Trust
Publication Year
Total Pages106
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy