SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ - कूपदृष्टान्तविशदीकरणं ७ एवमेव शाब्दिकतीर्थकरत्वप्रार्थनायाः क्षायिकभावप्रार्थनामाश्रित्य अनिदानत्वापत्तिः औदयिकभावव्यवधानस्थानेऽवबोद्धव्या, तत्समाधानं चावबोद्धव्यम्। अत्र सुखावबोधाय पुनः सङ्केपतः किञ्चिदुच्यते। (१) औदयिकभावोपरागयुक्ततीर्थकरत्वप्रार्थना निदानम्। (२) क्षायिकभावोपरागयुक्ततीर्थकरत्वप्रार्थना न निदानम्। (३) यत्र प्रथमं औदयिकभावप्रार्थना पश्चात् औदयिकक्षायिकोभयभावोपरागविनिर्मुक्ततीर्थकरत्व- प्रार्थना अर्थात् शाब्दिकतीर्थकरत्वप्रार्थना भवति, तत्र सा निदानम्। (४) यत्र प्रथमं क्षायिकभावप्रार्थना, पश्चात् प्रतिपादिता शाब्दिकतीर्थकरत्वप्रार्थना भवति, तत्र सा न निदानम्। (५) यत्र प्रथमं औदयिकभावप्रार्थना, पश्चात् क्षायिकभावप्रार्थनारूपं व्यवधानं,पश्चाच्च शाब्दिकतीर्थकरत्वप्रार्थना भवति, तत्र सा न निदानम्। (६) यत्र प्रथमं क्षायिकभावप्रार्थना, पश्चात् औदयिकभावप्रार्थनारूपं व्यवधानं, पश्चाच्च शाब्दिकतीर्थकरत्वप्रार्थना भवति, तत्र सा निदानम्। ___ (७) 'तीर्थकरत्वं किं?' इति प्रश्नस्य उतरे यदि जीवो बाह्यविभूतिं कथयति, तदा तस्य मनसि औदयिकभावप्रार्थना तत्संस्कारश्च वर्तत इति स्पष्टम्। केवलं तज्जीवस्य एतत्कथनं स्वाभाविकमवसेयम्, न तु कपटजन्यम्। अतिगहनमिदं तत्त्वं पुनः पुनरुपयुज्य स्पष्टीकर्त्तव्यम्। (८) 'तीर्थंकरत्वं किं?' इति प्रश्नस्य उत्तरे यदि जीवोऽभ्यन्तरविभूतिं कथयति, तदा तस्य मनसि क्षायिकभावप्रार्थना तत्संस्कारश्च वर्तत इति स्पष्टम्। केवलं तज्जीवस्यैतत्कथनं स्वाभाविकमक्सेयम्, न तु कपटजन्यम्। यशो.: समूहालम्बनेच्छायां तु मानाभावः । यन्द्र.: ननु यथा कश्चित्तीर्थकरत्वं बाह्यविभूतिरूपं मत्वा प्रार्थयति, यथा च कश्चित्तीर्थकरत्वमभ्यन्तर -विभूतिरूपं मत्वा प्रार्थयति, एवं कश्चित्तीर्थकरत्वं बाह्यविभूतिरूपमभ्यन्तरविभूतिरूपं चोभयरूपं मत्वा तीर्थकरत्वं प्रार्थयति, तदा तस्य प्रार्थना किंस्वरूपा? सा च प्रार्थना 'बाह्यविभूतिरूपं तीर्थकरत्वं अभ्यन्तरविभूतिरूपं तीर्थकरत्वं च मम भूयात्' इत्यादिरूपा समूहालम्बनेच्छात्मिका भवेत्। सा चैकस्मिन्नपि समये सम्भवेत् इति चेत् न, समूहालम्बनेच्छायां = हे पूर्वपक्ष! अनन्तरमेव भवत्प्रतिपादितायां मानाभावः = प्रमाणाभावः। भवता एकस्मिन्नेव समये बाह्याभ्यन्तरविभूतिरूपस्य द्विविधस्य तीर्थकरत्वस्य ज्ञानमुच्यते,परन्तु समयोऽतिसूक्ष्मः काल इति एतादृशोऽनुभवो भवति यदुत एकस्मिन्नेव समये बाह्यविभूतेरभ्यन्तरविभूतेश्चेच्छा
SR No.022223
Book TitleKupdrushtant Vishadikaranam
Original Sutra AuthorN/A
AuthorChandreshakharvijay
PublisherKamal Prakashan Trust
Publication Year
Total Pages106
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy