________________
**********************
ધર્મપરીક્ષા
ઉપદેશ સજ્જનોને ચારિમાં રહેલ સંજીવની ઔષધના ચરવારૂપ દૃષ્ટાન્ત તરીકે માન્ય છે, ईष्ट छे.
यशो० : भावार्थस्तु कथागम्यः, सा चेयमभिधीयते । अस्ति स्वस्तिमती नाम नग नागराकुला ।।
तस्यामासीत्सुता काचिद् ब्राह्मणस्य तथा सखी । तस्या एव परं पात्रं सदा प्रेम्णो गतावधेः ।।
तयोर्विवाहवशतो भिन्नस्थाननिवासिता । जज्ञेऽन्यदा द्विजसुता जाता (स्थिता) चिन्तापरायणा ।। कथमास्ते सखीत्येवं ततः प्राघूर्णिका गता । दृष्टा विषादजलधौ निमग्ना सा तया ततः ।। पप्रच्छ किं त्वमत्यन्तविच्छायवदना सखि ! । तयोचे पापसद्माऽहं पत्युर्दुर्भगतां गता ।। मा विषीद विषादोऽयं निर्विशेषो विषात्सखि ! । करोम्यनड्वाहमहं पतिं ते मूलिकाबलात् ।। तस्याः सा मूलिकां दत्त्वा संनिवेशं निजं ययौ । अप्रीतमानसा तस्य प्रायच्छत्तामसौ ततः ।। अभूद्गौरुद्धुरस्कन्धो झगित्येव च सा हृदि । विद्राणाथ (णैष) कथं सर्वकार्याणामक्षमोऽभवत् ।। गोयूथान्तर्गतो नित्यं बहिश्चारयितुं सकः । तयाऽऽरब्धो वटस्याधः सोऽन्यदा विश्रमं गतः ।। तच्छाखायां नभश्चारिमिथुनस्य कथंचन । विश्रान्तस्य मिथो जल्पप्रक्रमे रमणोऽब्रवीत् ।। नात्रैष गौः स्वभावेन किन्तु वैगुण्यतोऽजनि । पत्नी प्रतिबभाषे सा पुनर्नाऽसौ कथं भवेत् ।। मूल्यन्तरोपयोगेन क्वास्ते ? साऽस्य तरोरधः । श्रुत्वैतत्सा पशोः पत्नी पश्चात्तापितमाना ।। अभेदज्ञा ततश्चारिं सर्वां चारयितुं तकम् । प्रवृत्ता मूलिकाऽऽभोगात्सद्योऽसौ पुरुषोऽभवत् ।। अजानाना यथा भेदं मूलिकायास्तया पशुः । चारितः सर्वतश्चारिं पुनर्नृत्वोपलब्ध तथा धर्मगुरुः शिष्यं पशुप्रायं विशेषतः । प्रवृत्तावक्षमं ज्ञात्वा देवपूजादिके वि सामान्यदेवपूजादौ प्रवृत्तिं कारयन्नपि । विशिष्टसाध्यसिद्ध्यर्थं न स्याद्दोषी मनागपि ।। इति ।
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + गुभराती विवेयन सहित 33
XXXXXXXXXXXXXXXXXXXXX