________________
(双双双双双双双戏双双双双双双双双双双双双双
双双双滅滅滅双双双双双双双双双双双双双双双双双双双双双双双双双双双瑟瑟寒寒寒寒寒寒寒寒双头
गलमच्छभवविमोअगविसन्नभोईण जारिसो एसो ।
मोहा सुहो वि असुहो तप्फलओ एवमेसो त्ति ।। (उप. पद. १८८) 'गलेत्यादि-गलो नाम प्रान्तन्यस्तामिषो लोहमयः कण्टको मत्स्यग्रहार्थं जलमध्ये संचारितः, तद्ग्रसनप्रवृत्तो मत्स्यस्तु प्रतीत एव, ततो गलेनोपलक्षितो मत्स्यो गलमत्स्यः । भवा= में * दुःखबहुलकुयोनिलक्षणाद् दुःखितजीवान् काकशृगालपिपीलिकादीन् तथाविधकुत्सितवचनसंस्कारात्प्राणव्यपरोपणेन मोचयत्युत्तारयतीति भवविमोचकः पाखण्डविशेषः । विषेण मिश्रमन्नं ? तद् भुङ्क्ते तच्छीलश्च यः स तथाविधः, ततो गलमत्स्यश्च भवविमोचकश्च विषान्नभोजी में चेति द्वन्द्वः, तेषां यादृश एष परिणामः प्रत्यपायफल एव। कुतः? मोहादज्ञानात्पर्यन्तदारुणतया में शुभोऽपि स्वकल्पनया, स्वरुचिमन्तरेण तेषां तथा प्रवृत्तेरयोगात्सुन्दरोऽपि सन् अशुभः संक्लिष्टः । एव। कुतः? इत्याह-तत्फलतः=भावप्रधानत्वानिर्देशस्य तत्फलत्वाद्=अशुभपरिणामफलत्वाद् । । * अथ प्रकृते योजयन्नाह - एवं गलमत्स्यादिपरिणामवत्, एषोऽपि-जिनाज्ञोल्लङ्घनेन धर्मचारिपरिणामः तत्फलत्वादशुभ एव, आज्ञा-परिणामशून्यतयोभयत्रापि समानत्वेन तुल्यमेव में किल फलम्"
चन्द्र० : पूर्वपक्षो हरिभद्रसूरिनिगदितं पाठं दर्शयति - तथा हि इत्यादि । * गाथासंक्षेपार्थस्त्वयम्- गलमत्स्यभवविमोचकविषान्नभोजिनां यादृश एष शुभोऽपि मोहात् । तत्फलतः = अशुभफलतः अशुभः, एवमेषोऽपि इति । एतद्भावार्थस्तु अनन्तरमेव में तट्टीकादर्शनात् स्पष्टीभविष्यति । ___गलेत्यादि इत्यादि टीका तु सुगमैव । नवरम् - प्रान्तन्यस्तामिषः = अन्तभागे स्थापितं में मांसं यस्मिन् स इति भावः । तथाविधकुत्सितवचनसंस्कारात् = 'भविष्यत्सिद्धीनां सर्वेषामपि जीवानां मारणेन उपकारद्वयो भविष्यति, दुःखाद्विमोचनेन केवलिदृष्टनियतभवानामल्पताकरणेन * च । एवं च ते शीघ्रं मोक्ष प्राप्स्यन्ते' इत्यादिरूपाणि यानि कुत्सितानि = निन्दनीयानि * वचनानि, तत्संस्कारात् = भूयोभूयस्तादृशवचनश्रवणभणनचिन्तनादिरुपात् प्राणव्यपरोपणेन
= हिंसया पाखण्डविशेषः = कुमतविशेषः । शुभोऽपि स्वकल्पनया = परमार्थतस्तावत्शुभो । से नास्त्येव, किन्तु मूढः स्वयमेव स्वपरिणामं शुभं मन्यत इति । ननु कथं स्वकल्पनया स शुभः,
न परमार्थात् ? इत्यत आह - स्वरुचिमन्तरेण = मूढताजनितां स्वकल्पनां विना तेषां में • तथाप्रवृत्तेः = अशुभानुबन्धजनयित्र्याः प्रवृत्तेः अयोगात् । शुभोऽपि इति पाठगत
买买买买买买买买买买买买买买买买买买双双双强双双双双双双英英英英英寒寒寒寒寒寒寒寒寒寒寒琅琅琅寒寒寒寒寒寒寒英双双双双双双双双双双表赛赛规
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીચા ટીકા + ગુજરાતી વિવેચન સહિત ૪ ૧૪