________________
ધર્મપરીક્ષા
चन्द्र० : एवमीश्वरगतं नामभेदं विशेषं च निरर्थकं प्रतिपाद्याधुना कालातीतो भवकारणगतं नामभेदं विशेषं च निरर्थकं प्रतिष्ठापयितुमारभते ।
(६) यतश्च अविद्याक्लेशकर्मादि
परपरिकल्पितानि भवकारणम् । ततः = अस्मत्परिकल्पितं भवकारणात्मकं तत्त्वं एव संज्ञाभेदं
तस्मात्कारणात् प्रधानमेव अविद्यादिनामभेदं उपागतं प्राप्तम् । प्रधानत्वं भवकारणमस्माभिर्मन्यते । परैश्च अविद्या क्लेशः कर्म अन्यच्च भवकारणं कल्प्यते । ततश्च प्रधानस्यैव अविद्याक्लेशकर्मादीनि
नामान्तराणीति ।
=
(७) अस्यापि
भवकारणस्यापि, न ईश्वरमात्रस्यैव इत्यपिशब्दार्थः । यश्चित्रोपाधिः
परो भेदस्तथा तथा गीयते । धीमतां सोऽपि = भवकारणेषु विशेषोऽपि न केवलं ईश्वरगतो विशेष एवेत्यपिशब्दार्थः । अतीतहेतुभ्यः = "विशेषस्यापरिज्ञानात्" इति गाथायां प्रतिपादितेभ्यश्चतुर्भ्यः कारणेभ्यः । अपार्थकः अपगतोऽर्थो यस्माद् इति अपार्थकः, निरर्थक इति भावः । अत्र भवकारणेषु कैश्चिन्मूर्तत्वं कैश्चिदमूर्तत्वं, कैश्चिदात्मविशेषगुणत्वं इत्यादि कल्पते । एतत्सर्वं चित्रोपाधिस्तद्रूप उत्कृष्टभेदस्तत्तत्तन्त्रानुसारिभिः स्वस्वतन्त्रनीत्या गीयते । किन्तु मतिमतां स भेदः प्रतिपादितात् कारणचतुष्टयान्निरर्थक एव प्रतिभाति इति भावार्थः ।
=
=
=
=
=
=
=
(८) ततः यस्मादेष भवकारणगतो विशेषोऽपार्थकः, तस्मात्कारणात् यत् तद्भेदनिरूपणं = भवकारणविशेषनिरूपणं “भवकारणं अमूर्तं अस्ति" इत्यादिरूपम् । अयं अस्थानप्रयासः = भवभेदनिरूपणरूपो निष्फलः प्रयास इति भावः ।
=
भवकारणविशेषनिरूपणस्यास्थानप्रयासत्वे कारणान्तरमाह - यतश्च = यस्माच्च कारणाद् अनुमानस्य भवकारणादिसाधकस्यानुमानस्य विषयः सामान्यं
भवकारणमात्रं मतः,
न तु भवकारणगतानि मूर्तत्वामूर्तत्वादीनि अनुमानविषया भवन्तीति । यथा हि "पर्वतो वह्निमान् धूमात्" इत्याद्यनुमानाद् वह्निमात्रं ज्ञायते, न तु वह्नेराकारः स्पर्शो रूपः प्रमाणादि च । एवं भवकारणसाधकेऽनुमाने भवकारणमात्रमनुमीयते, न तु तद्गतानि मूर्तत्वादीनि । ततश्च अनुमानादिनाऽसिद्धस्य भवकारणगतविशेषस्य निरूपणमस्थानप्रयासः स्फुट एव ।
******************************
=
यतः
(९) एवं कालातीतवचनानुवादं कृत्वा हरिभद्रसूरिस्तद्वचनप्रशंसां करोति - साधु च शोभनं च एतत् = कालातीतवचनम् । कालातीतवचने शोभनत्वस्य कारणमाह = यस्मात्कारणात् शास्त्रं नीत्या = परमार्थगवेषणात्मिकया अत्र = सर्वज्ञभक्त्यादौ प्रवर्त्तकं મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા ન ગુજરાતી વિવેચન સહિત * ૧૧૨