________________
ધમપરીક્ષા
पदार्था ज्ञेयाः ।
तत्र मिथ्यादृशां ग्रन्थिभेदाभावाद् एतेषु पदार्थेषु भिन्नाकारं ज्ञानं सम्भवति । एकस्मिन्नैव सुदेवादौ पदार्थे कस्यचिदुपादेयत्वबुद्धिः, कस्यचिद्धेयत्वबुद्धिः, कस्ययिच्च मिथ्यात्विनो ज्ञेयत्वमात्रबुद्धिर्भवति । एवमन्यत्रापि भाव्यम् ।
किन्तु सम्यग्दृशां सर्वेषां महात्मनां ग्रन्थिभेदप्रभावाद् उपादेयेषु उपादेयत्वस्य बुद्धिः, हेयेषु च हेयत्वस्य बुद्धिः, ज्ञेयेषु च ज्ञेयत्वस्य बुद्धिः प्रभवति । इत्थं चैते पदार्थाः सकलैरपि सम्यग्दृशैरविकल्पज्ञानग्राह्यो भवन्तीति सकलेषु पदार्थेषु यदेतत् तादृशाविकल्पज्ञानग्राह्यत्वं वर्त्तते, तदेव वेद्यत्वमिति ।
अत्र बहु वक्तव्यं, किन्तु संक्षेपत इदमेव उच्यते यदुत सम्यगदृशो जीवा रागद्वेषकारणत्वेनानुभूयमानेषु पदार्थेषु हेयत्वं, रागद्वेषनाशकत्वेनानुभूयमानेषु च पदार्थेषु उपादेयत्वं अभ्युपगच्छन्त्येव । किन्तु ज्ञानावरणोदयाद् रागद्वेषकारणेष्वपि पदार्थेषु रागद्वेषनाशकत्वज्ञानादुपादेयधीः, रागद्वेषनाशकेष्वपि पदार्थेषु रागद्वेषजनकत्वज्ञानाद्धेयत्वधीस्तेषां सम्भवत्येव । यदा तु तेषां तेषु पदार्थेषु रागद्वेषजनकत्वं रागद्वेषनाशकत्वं चानुभूयते, तदा तु ते क्रमशस्तेषु पदार्थेषु हेयत्वमुपादेयत्वं च स्वीकुर्वन्त्येवेति ।
एवं तावदेकेन प्रकारेण वेद्यपदव्याख्याया विवरणं कृतम् ।
इदं च द्वितीयेन प्रकारेण विवरणम् - वस्तुस्थित्या = परमार्थतो ज्ञेयत्वमात्रेणेति यावत्, तथाभावयोगिसामान्येन, तथा = सकलघातिकर्मक्षयेण ये भावयोगिनः केवलिनः, तेषां सामान्यं = सर्वैरपि केवलिभिरिति यावत् । अविकल्पज्ञानग्राह्यं = "इदं उपादेयं, इदं हेयं, इदं ज्ञेयं" इत्यादयो ये विकल्पाः, तद्रहितं एकाकारं " इदं ज्ञेयं" इत्येतावन्मात्रं ज्ञानं, तेन ग्राह्यमिति ।
=
अयं भावार्थः - परमार्थतो न किमपि वस्तु हेयं उपादेयं वा वर्त्तते । किन्तु जीवविशेषमाश्रित्य वस्तुनि हेयत्वमुपादेयत्वं वा कल्प्यते । तथा हि- यशोदाया रागकारणं वीरो यशोदाया हेयः, स एव वीरोऽस्माकं शुभपरिणतेः कारणं सन्नुपादेयः । इत्थं च वस्तुनि पारमार्थिकं हेयत्वमुपादेयत्वं वा नास्त्येव, किन्तु कल्पितमात्रमेव । केवलिनः पारमार्थिकवस्तुज्ञानवन्तः । ततस्ते सर्वेष्वपि पदार्थेषु ज्ञेयत्वमेव जानन्ति । न हि स्त्रीषु " इयं मम हेया" इति, अर्हदादिषु च "अयं ममोपादेयः" इत्यादिरूपा च प्रज्ञा तेषां प्रभवति । किन्तु सर्वाणि वस्तुनि ते ज्ञेयत्वरूपेण जानन्तीति सर्वेषु वस्तुषु यत् सर्वकेवलिभिर्ज्ञेयत्वमात्रेण धर्मेण ज्ञेयत्वं अनुभूयते, तदेव तेषां મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત * ૭૫