________________
*******************
*********
ધર્મપરીક્ષા ;
शास्त्रार्थत्वात् ।
=
चन्द्र० : “अविशेषेण” इति पदस्य कृत्यं दर्शयितुं प्रथममतिव्याप्तिस्थानप्रदर्शनार्थमाहयद्यपि परमोपेक्षावतां = परममाध्यस्थ्यवतां कस्मिंश्चिदपि पदार्थे अकदाग्रहिणां निश्चयपरिकर्मितमतीनां निश्चयनयेन परिकर्मिता परिपक्वीभूता मतिर्येषां ते, तेषां सम्यग्दृष्टीनां स्वस्वस्थाने : = तस्य तस्य नयस्य स्थाने सर्वनयश्रद्धानं = तस्य तस्य नयस्य श्रद्धानं अस्ति । ते हि व्यवहारनयस्थाने व्यवहारनयश्रद्धानवन्तो निश्चयनयस्थाने च निश्चयनयश्रद्धानवन्तो भवन्त्येव । यथा “ आरोग्यदशायां शक्तौ सत्यां एकाशनकं कर्त्तव्यमेव" इत्यत्र व्यवहारश्रद्धानवन्तो भवन्ति । रोगदशायान्तु " सांवत्सरिकदिनेऽपि नमस्कारसहितादिकं क्रियतां, न तत्र कोऽपि दोष:, रागद्वेषहानिरेव जिनाज्ञा" इत्यादि निश्चयश्रद्धानवन्तो भवन्ति । ननु सर्वनयश्रद्धानं शास्त्रविरूद्धम् ? इति चेत्, न, शिष्यमतिविस्फारणरूपकारणं शिष्यमतेर्यद् विशदीकरणं तद्रूपकारणं विना एकतरनयार्थनिर्द्धारणस्य निश्चयस्य व्यवहारस्य वा, ज्ञानस्य क्रियाया वा, द्रव्यार्थिकस्य पर्यायार्थिकस्य वा यद् निर्द्धारणं एकान्तेन श्रद्धानं, तस्य अशास्त्रार्थत्वात् = शास्त्रार्थभिन्नत्वात् ।
XXXXXXXXXXXXXXXX
=
=
=
अयं भावः-ज्ञाननयपरिकर्मितमतिं शिष्यं क्रियानयस्यापि प्राधान्यं ग्राहयितुं तत्र ज्ञाननयखण्डनं कृत्वा क्रियात्मकस्यैकस्यैव नयस्य यन्मण्डनं "क्रियैव श्रेयसी, न तां विना परमपदप्राप्तिः" इत्यादिरूपं तच्छास्त्रानुसारि । एवं क्रियामुग्धमतिं शिष्यं निश्चयं ग्राहयितुं क्रियानयखण्डनयुक्तं ज्ञाननयमण्डनमपि शास्त्रानुसारि ।
किन्तु एतादृशं पुष्टकारणं विना क्रियामात्रस्य ज्ञानमात्रस्य वा निर्द्धारणं तु शास्त्रविरुद्धमेव । तत्र त्वेतावदेव वक्तव्यं यदुत "क्रियानयस्थाने क्रिया प्रधाना, ज्ञाननयस्थाने तु ज्ञानम्" इत्यादि ।
शुन्द्र : (“अविशेषेण” से पहनुं प्रयो४न शुं छे ? मे जताववा भाटे सौ प्रथम અતિવ્યાપ્તિનું સ્થાન બતાવી રહ્યા છે કે) જો કે પરમ ઉપેક્ષાવાળા = કોઈપણ પદાર્થમાં ખોટા આગ્રહ વિનાના, નિશ્ચયથી ઘડાયેલી બુદ્ધિવાળા એવા સમ્યદૃષ્ટિઓને તો દરેક નયના પોતપોતાના સ્થાનમાં તે તે દરેક નય ઉપર શ્રદ્ધા હોય જ છે. (અર્થાત જ્યાં ક્રિયાનયનું સ્થાન હોય ત્યાં આ મહાત્માઓને ક્રિયાનયમાં શ્રદ્ધા હોય જ. જ્યાં જ્ઞાનનયનું સ્થાન હોય ત્યાં આ મહાત્માઓને જ્ઞાનનયમાં શ્રદ્ધા હોય જ. દા.ત. નિરોગી, શક્તિમાન સાધુ હોય તો આ મહાત્માઓ તેને “એકાસણું ક૨વું જ જોઈએ” એમ ક્રિયાનો ઉપદેશ
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૧૩