________________
EXXXXXXXXXXXAERBARRRRRRRRRAXXXXXXXXXXX
परीक्षा omeOOODDDDDDDDDDD00000000000000000000000000000000 કે અમે અર્થ આવો કર્યો છે કે “ઉન્માર્ગમાર્ગસંપ્રસ્થિતનો = તીર્થોચ્છેદાભિપ્રાયવાળાનો અનંત સંસાર થાય એટલે તીર્થોચ્છેદાભિપ્રાય વિનાના યથાવૃંદાદિ ઉન્માર્ગગામી હોવાનું છતાં અનંતસંસારનો નિયમ સિદ્ધ ન થાય.)
यशो० अहो किंचिदपूर्वं युक्तिकौशलम् ! यदुक्तवचनबलात्तीर्थोच्छेदाभिप्रायवतां । * निह्नवा-नामनन्तसंसारनियमसिद्धौ पदविशेषतात्पर्यग्रहः, तस्मिंश्च सति तत्सिद्धिरित्यन्योन्याश्रयदोषमापतन्तं न वीक्षसे ।।
चन्द्र : एवमसमञ्जसप्रलापिनः परिहासं करोति-अहो किंचिदपूर्वं इत्यादि । कटाक्षवचनमिदं । सर्वथा युक्तिरहितमेव भवद्वचनमिति भावः ।
तत्र कारणमाह-यत् = (भवद्वचनं न युक्तं) यस्मात् उक्तवचनबलात् = गच्छाचारवचनबलात् । पदविशेषतात्पर्यग्रहः = उन्मार्गमार्गसम्प्रस्थितपदस्य "उन्मार्गपतितः" इत्यर्थ-* वाचकस्य विशेषे = "तीर्थोच्छेदाभिप्रायवान्" इति अर्थे तात्पर्यस्य ग्रहः = प्रकृतं पदं से 'तीर्थोच्छेदाभिप्रायवान्' इति रूढ्यर्थस्य वाचकमस्ति इति निर्णयः । -- तस्मिंश्च सति = पदविशेषतात्पर्यग्रहे च सति तत्सिद्धिः = निह्नवानां अनन्तसंसार* नियमसिद्धिः ।
इदमत्र तात्पर्यम् - पूर्वपक्षो गच्छाचारपाठस्थस्य उन्मार्गमार्गसम्प्रस्थितपदस्य "तीर्थोच्छेदाभिप्रायवान्" इत्यर्थं गृह्णाति, किन्तु "उन्मार्गपतितः" इति प्रसिद्धमर्थं न गृह्णाति । तत्र प्रश्नः से करणीयः - 'ननु हे पूर्वपक्ष ! प्रकृतपदस्य प्रसिद्धमर्थं त्यक्त्वा विशेषमर्थं किमर्थं गृह्णासि' ? - इति ! ___स प्रत्युत्तरयति – 'हे प्रश्नकार ! निह्रवानामेव नियमेनानन्तसंसारः, न तु यथाछन्दानाम्, में ततश्च यदि प्रकृतपदस्य सामान्यमर्थं गृह्णीयाम्, तर्हि "उन्मार्गगामिनां नियमेनानन्तः संसारः"
इत्यर्थो भवेत्, ततश्च यथाछन्दानामपि स स्यात्, स च नास्ति । तस्मात् "यथाछन्दानां में # नियमेनानन्तसंसारो मा सिद्ध्येत्" इत्येतदर्थं प्रकृतपदस्य विशेषोऽर्थो मया गृहीतः, तद्ग्रहणे . में च यथाछन्दानां नियमेनानन्तसंसारो न सिद्ध्येदिति न कोऽपि दोषः' इति ।
एवं पूर्वपक्षणोक्ते पुनः प्रश्नः करणीयः - "ननु हे पूर्वपक्ष ! निह्नवानामेव नियमेनानन्त*संसारः, न तु यथाछन्दानां" इति सिद्धान्तो भवता कथं निर्णीतः ? - इति ।
MORRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRR ##
KAKAKKKAKKRA
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૪ ૬૩