________________
EAAKAAAAAXXXXXXXXXXXXXXXXXXXXXXXXKRRAHAKAXXMAAREERXXXXXXXXXXXXXXXXXXXX
पाठेन यथाछन्दत्वभणनादुत्सूत्रभाषित्वं सिद्धम्, उस्सुत्तमायरंतो उस्सुत्तं चेव पण्णवेमाणो । एसो उ अहाछंदो इच्छाछंदु त्ति एगट्ठा ।। इत्यावश्यकनियुक्तिवचनात् () । तासां चैकावतारित्वं प्रसिद्धमिति नायं नियमो युक्तः ।।
चन्द्र : ननु महानिशीथसूत्रे अर्हदाद्याशातनाकारिण एवाध्यवसायानुसारेण संख्यातादिः ॐ संसारः प्रतिपादितः, न तूत्सूत्रप्ररूपकस्य । तथा च कथं महानिशीथपाठमाश्रित्योत्सूत्रप्ररूपकाणां संख्यातादिः संसार सेत्स्यति ? इति शङ्कायां सत्यां यद्यपि एतत्प्रत्युत्तरं दातुं शक्यते यदुत-तत्र "अहंदादि" इति आदिपदात् श्रुतमपि गृह्यते, तदाशातनाकारी तु में उत्सूत्रप्ररूपकोऽपि भवत्येवेति स्पष्टमेव महानिशीथपाठात् उत्सूत्रप्ररूपकस्यापि संख्यातादिसंसारसिद्धिः इति । तथापि सदृष्टान्तः प्रतिपादितः पदार्थः स्पष्टमवबुद्ध्यत इति कृत्वा में "उत्सूत्रप्ररूपकस्य संख्यातादिसंसारस्यापि सम्भवः" इति सदृष्टान्तमाह किञ्च इत्यादि । - * कालीदेवीप्रमुखाणां = तन्नामकपार्श्वनाथशासनकालीनसाध्वीप्रभृतीनां षष्ठाङ्गे = ज्ञाताधर्मकथाङ्गे। ___ उत्सूत्रभाषित्वं सिद्धम् = यतः ताः कालीदेवीसाध्वीप्रमुखाः साध्व्यः षष्ठाङ्गे यथाछन्दा भणिताः, ततस्तासामुत्सूत्रभाषित्वं सिद्धमिति भावः ।
ननु तास्तत्र यथाछन्दा एव भणिताः, न तूत्सूत्रभाषिण्यः, ततः कथं यथाछन्दत्वभणनमात्रात् में तासामुत्सूत्रभाषित्वं सिद्धयेदित्यतो "यथाच्छन्दा अवश्यमुत्सूत्रभाषिण एव भवन्ति" इति * साधनार्थं शास्त्रपाठमाह-उस्सुत्तमायरंतो इत्यादि । गाथासक्षेपार्थस्त्वयम् - उत्सूत्रमाचरन् । उत्सूत्रं चैव प्रज्ञापयन् एष यथाछन्दो भवति । इच्छा छन्द इति एकार्थों (शब्दौ) । ___ एवं कालीदेवीप्रमुखाणामुत्सूत्रभाषित्वं साधयित्वाऽधुना तासां संख्यातसंसारित्वं प्रतिपादयति * तासां च इत्यादि । प्रसिद्धम् = षष्ठाङ्गे तासां देवीभवानन्तरभवे मोक्षगामित्वं प्रतिपादितमेवेति ।
भावः । ___ इति = यत उत्सूत्रभाषिणामपि कालीदेवीप्रमुखाणामेकावतारित्वं सिद्धम्, तस्मात्कारणात् में * नायं नियमो = न "उत्सूत्रभाषिणां नियमेनानन्तः संसारः" इति नियमो युक्तः ।
ચન્દ્રઃ (પૂર્વપક્ષ ઃ મહાનિશીથપાઠમાં તો તીર્થંકરાદિની આશાતના કરનારાઓને
英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૨૯