________________
KERALAKKKAKKKAKKARXXXXXX ARXXXKXXYBXXXXXXXXXXXXXXXXKAKKARRAAKA
चन्द्र० : अत्र समाधानमाह - माध्यस्थ्यं हि द्विविधं भवति, तत्रैकं तावत्परीक्षामें प्रतिकूलमेव, द्वितीयन्तु परीक्षानुकूलम् । तत्र परीक्षाप्रतिकूलं माध्यस्थ्यं प्रथमं दर्शयति में * प्रतीयमानस्फुटेत्यादि । * प्रथमं तावत्समासं कृत्वा तत्पश्चाद् भावार्थ प्रतिपादयिष्यामि । प्रतीयमानस्फुटातिशयशालि
परविप्रतिपत्तिविषयं च यत्पक्षद्वयं, तस्माद् यदन्यतरस्य निर्धारणं, तदनुकूलो यो व्यापारः में तदभावः परीक्षाप्रतिकूलं माध्यस्थ्यमिति । में भावार्थस्त्वयम्-काचो मणिश्च इति पक्षद्वयं, तच्च प्रतीयमानः 'स्फुटो योऽतिशयः =
परस्परं भेदः', तेन शालते = विशिष्टं वर्तते । यथा काचे अल्पमूल्यत्वं मणौ च महामूल्यत्वं, * *काचे मण्याभासत्वं मणौ च वास्तविकमणित्वमित्यादिरूपः स्फुटातिशयोऽस्त्येव, तेन च । में विशिष्टं पक्षद्वयं वर्तते ।
किन्तु परे = केचिद् काचं मणि मणिं च काचं प्रतिपद्यन्ते, एवं च काचमणिरूपं * पक्षद्वयं परेषां विप्रतिपत्तेः विषयो भवति । अत्र च पक्षद्वयमध्यान्मणेरेव मणितया निर्धारणं कर्तव्यं, न तु काचस्य । तदनुकूलो व्यापारस्तु अयमेव यदुत मणेः काचस्य च भेदो में सम्यक्प्रकारेण स्वयं ज्ञेयः, अन्येषां च ज्ञापनीयः । परन्तु तादृशस्य व्यापारस्याभावरूपं
माध्यस्थ्यं यस्मिन्वर्तते, स परीक्षां नैव करोति । तस्माद्युक्तमुक्तं तादृशव्यापाराभावः में परीक्षाप्रतिकूलं माध्यस्थ्यमिति । है अधुना द्वितीयं माध्यस्थ्यमाह स्वाभ्युपगमेत्यादि । 'साधुभिः वस्त्रं न धारणीयं' इत्यादिमें रूपो यः स्वाभ्युपगमः = दिगम्बरादीनां स्वाभिप्रायः, तस्य त्यागकरणरूपा या हानिः, , तस्या यद् भयं "मया ममाभिप्रायस्तु नैव त्यक्तव्यः, यदि अहं शास्त्रानुसारेण तत्त्वचिन्तनं में
कुर्याम्, तर्हि मया मदभिप्रायः त्यक्तव्यः स्यात्, न च केनापि प्रकारेण अहं मदभिप्राय प्रत्यक्ष्यामि" इत्यादिरूपम् । यदि वा 'यद्यहं स्वाभिप्रायं त्यजेयम्, तर्हि मद्भक्तादिवर्गे में
मत्प्रतिष्ठाहानिः भवेत्, तेन च मदनुयायिवर्ग-इष्टार्थप्राप्ति-स्वैरविहारादीनां हानिरपि आपतेत्' इत्यादिरूपं, तत्प्रयुक्तो यो दृष्टिरागः = निजमते कदाग्रहः, तदभावलक्षणं द्वितीयं माध्यस्थ्यम् । तत्तु परीक्षानुकूलमेव। ___यस्य हि निजमते कदाग्रहात्मको रागो भवति, स स्वमतत्यागं कर्तुं कदापि समर्थो न भवति । अत एव तस्य तत्त्वचिन्तनादी अनवरतं भयं भवति, 'मया पराजयं प्राप्य निजमतं. त्यक्तव्यं मा भूत्' इति । एतादृशश्च कदाग्रही न सम्यग् धर्मपरीक्षां कर्तुमलम् । तादृशकदाग्रहाभावे એ મહામહોપાધ્યાય થશોવિજયજી વિરચિત ધર્મપરીક્ષા • થશેખરીચા ટીકા + ગુજરાતી વિવેચન સહિત ૧૫ જ
XXXXXXXXXXXXXXXXXXXXXXXXXXXXKAKKKKAKKAKKAKAKKAKKARXXXXXXXXXXXXXXXXXXXX