________________
(४६) अष्टम-प्रकरणम् ।
अन्तिमशिक्षा। अनन्तशक्तिं दधदेष चेतनः प्रवेदितुं तं यतते महोदयः। प्रकाशितेऽस्मिन् सकलं प्रकाशतेऽप्रकाशितेऽस्मिन् सकलं तमो
मयम् ॥१॥
मोहप्रणाशेन च तत्प्रकाशनं मोहप्रणाशोऽपि च तत्त्वचिन्तनात् । चिन्त्यं च नैर्गुण्यमिदं भवोदधेर्जगत् किमेतत् किमिदं सुखा
सुखम् ? ॥२॥ वस्तुस्वरूपस्य विचिन्तनातो विवेकभासः प्रकटीभवन्ति । भवप्रपश्चाद् विनिवृत्य सुस्थीभूयाऽन्तरीक्षाकरणेन चिन्ता ॥३॥ एकस्वभावा न हि सर्वलोका विचित्रकर्मानुसृतेर्धमन्तः । आयुष्क-धी-शक्तिविचित्रतायामहन्ति सर्वेऽपि न मार्गमेकम्॥४॥
समग्रसामग्र्यनुकूलताया न सम्भवः सर्वशरीरभाजाम् । ' न तेनं सर्वेऽपि भवन्ति योग्याः साम्येन योगस्य पथेऽधिरोदम् ॥५॥ कुर्याद् यथाशक्ति तथापि नूनं कर्त्तव्यमात्माभ्युदयानुपाति । शनैः शनैः सञ्चरणेऽपि मार्गे स्थानं चिरेणाऽप्युपलभ्यते हि ॥६॥ तत्त्वावबोधप्रविकासहेतोर्यस्य स्वभावो न विचारणायाः । यातानुयातस्य पृथग्जनस्य न तस्य वैराग्यमुदेति साधु ॥७॥
न साधुवैराग्यविवर्जितत्वेऽपवर्गमागें भवति प्रवेशः । एवं च मानुष्यमनर्थकं स्याद् विचारमभ्यस्यतु तेन सम्यक् ॥८॥ हिंसादिकं पापमिति प्रसिद्धं तत्र प्रवत्तेत न चेत् कदापि । शिस्य कुर्याद् भजनं च तर्हि संसाधितं निश्चितमात्मकार्यम् ॥९॥