________________
असाययोगोऽपि मनोवचोङ्गव्यापाररोधात् सकलप्रकारैः । अवादि मुक्त्या सह योजनेन योगो भवाम्भोनिधिरोध एषः ॥११॥ अमुं च योगं समुपाजगन्वान प्राप्नोति मोक्ष क्षणमात्र एव । सर्वज्ञभावावसरेऽवशिष्टकर्माणि हन्ति क्षणतो यदेषः ॥ १२ ॥ अनेन योगेन विकर्मकीसन मुक्तो भवेत् तत्क्षणमस्तदेहः । मुक्तिश्च केत्येव गभीरप्रश्ने जैनेन्द्रमार्गेण समाधिरेषः ॥ १३ ॥ ऊर्व यथाऽलाबुफलं समेति लेपेऽपयाते सलिलाशयस्थम् । ऊध तथा गच्छति सर्वकर्मलेपप्रणाशात् परिशुद्ध आत्मा ॥१४॥ अयं स्वभावोऽप्युपगन्तुमही यदूर्षमात्मैति विकर्मकत्वे । . ऊर्य प्रगच्छन्नवतिष्ठतेऽसौ क्षणेन लोकाग्रपदे परात्मा ॥ १५ ॥ ततोऽध आयाति न गौरवस्याऽभावाद् नचाग्रेऽप्यनुपमहत्वात् । नचास्ति तिर्यग्गतिसम्प्रयोक्ता लोकाग्र एव स्थितिरस्य युका ॥१॥
महेश्वरास्ते परमेश्वरास्ते स्वयम्भुवस्ते पुरुषोत्तमास्ते. '. पितामहास्ते परमेष्ठिनस्ते तथागतास्ते सुगताः शिवास्ते ॥१७॥
स ईश्वरो हे बहुभागधेयाः ! स्ताद वो मनोवारिरुहस्य इंसः । . अयं हि पन्था अवधारणीयश्चैतन्यशक्तिप्रगतावनन्यः ॥ १८ ॥ आलम्बन भवति यादृशमीदुगात्माऽऽ
पतिनिजात्मनि भवेदिति को न वेत्ति ? ।। आलम्बने सकललोकपतिः परात्मा
संश्रीयते यदि तदा किमपेक्षणीयम् ? ॥ १९ ॥