________________
(४४)
सप्तम-प्रकरणम् ।
योगश्रेणी ।
मानसवृत्तिनिरोधं सम्प्रज्ञातेतरप्रकारतया । योगं वदन्ति तज्ज्ञा ध्यानविशेषोऽत्र च प्रथमः ॥ १ ॥
वृत्तिक्षयस्वरूपोऽसम्प्रज्ञातोऽस्ति, वृत्तयो मनसः | क्षीणा भवन्ति सर्वाः केवलबोधस्तदोदेति ॥ २ ॥
देहस्य वृत्तयः खलु यदा निरुद्धा भवन्ति तत्कालः । योगोऽसम्प्रज्ञाताद् न भिद्यते निर्वृतिद्वारम् ॥ ३ ॥
अध्यात्मं भावना ध्यानं संमता वृत्तिसंक्षयः । इत्येवमप्यनूचाना उचाना योगपद्धतिम् ॥ ४ ॥
इच्छा च शास्त्रं च समर्थता चेत्येषोऽपि योगो मत आदिमोऽत्र । प्रमादतो ज्ञानवतोऽप्यनुष्ठाऽभिलाषिणोऽसुन्दरधर्मयोगः ॥ ५ ॥
श्रद्धान- बोद्धौ दधतः प्रकृष्टौ हतप्रमादस्य यथाऽऽत्मशक्ति | यो धर्मयोगो वचनानुसारी स शास्त्रयोगः परिवेदितव्यः ||६|| शास्त्रादुपायान् विदुषो महर्षेः शास्त्राऽप्रसाध्यानुभवाधिरोहः । उत्कृष्टसामर्थ्यतया भवेद् यः सामर्थ्ययोगं तमुदाहरन्ति ॥ ७ ॥ न सिद्धिसम्पादन हेतुभेदाः सर्वेऽपि शास्त्राच्छकनीयबोधाः । सर्वज्ञता तच्छ्रुतितोऽन्यथा स्यात् तत्प्रातिभज्ञानगतः स योगः ॥८॥ तत् प्रातिभ केवलबोधभानोः प्राग्वृत्तिकं स्यादरुणोदयाभम् । 'ऋतम्भरा' 'तारक' एवमादिनामानि तस्मिन्नवदन् परेऽपि ||९|| संन्यासरूपः स्मृत एष योगो धर्मस्तथा योग इति द्विधाऽसौ । तत्राssदिमः स्यात् क्षपकावलिस्थे शैलेश्यवस्थावति च द्वितीयः ॥ १० ॥