________________
सुदेव-मादिभवे शुभोऽसन्मनुष्यतिर्यङ्नरकादिकेऽन्यः । द्रव्यादियोगादिति चित्ररूपं विचिन्तयेत् कर्मफलं तृतीये ॥३॥ आत्मप्रतिष्ठ, स्थितमस्त्यनन्तानन्तं नमः सर्वत एव तत्र | लोकोऽस्ति मध्यस्थित ऊर्ध्व-मध्याऽधोभागतो यो दधते त्रिलो
कीम् ॥ ३४ ॥ स्वरूपमेतस्य विचिन्तनीयं ध्याने चतुर्थे बहुसूक्ष्मरीत्या । स्यादीदृशे वृत्तवतां च धर्मध्याने स्वयंवेद्यमतीन्द्रियं शम् ॥३५॥ ध्यानादमुष्माच्च नृजन्मपूत्तौं महद्धिकं स्वर्गमवाप्नुवन्ति । पुनर्नृजन्म प्रतिपद्य चारु योगस्य मार्गे पथिकीभवन्ति ॥ ३६॥ ध्यानं शुक्लं ततस्ते परममुपगताः क्लिष्टकर्माणि हत्वा ।
लोकालोकावभासं निरतिशयमरं ज्ञानमासादयन्ति । धर्म व्याख्यान्ति मोहान्धतमसहतये पर्षदि प्रस्फुरन्त्या
मायुष्पूत्तौं ततः स्युः परमपदजुषः सच्चिदानन्दरूपाः ॥३७॥