________________
( ४२ )
आश्रित्य लोकोत्तरपूरुषाणामाज्ञामबाधां परिचिन्तनं यत् । वस्तुस्वरूपस्य यथार्थतात आज्ञाभिधं ध्यानमिदं वदन्ति ||२२||
बभाषिरे सर्वविदोऽतिसूक्ष्मं तत्त्वं न तत् तार्किकतर्कजालैः । विहन्यते तत् प्रतिपत्तियोग्यं नान्यथा सर्वविदो वदन्ति ||२३||
अध्यात्ममार्गाssश्रयणं विनाऽयमात्मा भवेऽभ्राम्यदनन्तकालम् । रागादिदोषैकवशी भवन्तो निर्यान्ति नापायमहाऽटवीतः ||२४||
'मोहान्धकारप्रविलुप्तचेतसा नाऽकारि किं किं कलुषं मया हहा !। श्वश्रेषु तिर्यक्षु नरेषु चोल्बणं दुःखं न किं किं प्रतिपद्यते स्म च ! ||२५|| गम्भीरसंसारमहाऽऽपदाजले कालो गतोऽयं बुडतो ममाऽखिलः । harsuvaisa मया विचार्यते! प्रमाद एतस्य ममाऽपचेतसः ॥ २६॥
प्राप्याऽपि बोधि परमां मनोवचः शरीरदुश्चेष्टिततो मयैव हि । स्वमस्तके ज्वालित आशुशुक्षणिः कोऽत्रापराधी परिभाव्यतेऽपरः ?
।। २७ ।।
स्वाधीनतायामपि मुक्तिवर्त्मनो भ्रान्त्या स्वयं पातित एष चेतनः । भिक्षां यथाsदुपलब्धराज्यको मोक्षे स्वतन्त्रेऽपि तथा भवभ्रमः
॥ २८ ॥
एवं हि रागादिकदूषणेभ्यो जाता अपायाः परिचिन्तनीयाः । यस्मिन्नुपाया अपि तत्प्रणाशे ध्यानं द्वितीयं तदपायनाम ||२९||
उदीरितः कर्मफलं विपाकः शुभाशुभत्वेन स च द्विभेदः । द्रव्यादियोगात् स च चित्ररूपोऽनुभूतिमास्कन्दति देहभाजाम् ॥३०॥
· द्रव्यैर्वध- माल्य- सुभोजनाचैः शुभाशुभः शस्त्रविषानलाचैः । क्षेत्रे निवासेन महालयादौ शुभः श्मशानप्रभृतौ तदन्यः ||३१||
काले वसन्तप्रभृतावशीतानुष्णे शुभोऽन्यत्र विपर्ययश्च । मनः प्रसादप्रभृतौ च भावे शुभोऽशुभो रौद्रविकारभावे ॥ ३२ ॥