________________
भयोज्झितः सुस्थिरनासिकाग्रदृष्टिः प्रसन्नाननपुंडरीकः । क्लिष्टौष्ठयुग्मो रदनै रदांश्चाऽस्पृशन सुसंस्थान इतप्रमादः ॥११॥ स्पृहाविमुक्तो निजभूघनेऽपि प्रभूतसंवेगसरोनिमग्नः । . अमात्रकारुण्यपदं भवश्रीपराङ्मुखो हर्षयितेक्षमाणान् ॥ १२ ॥ एवंविधो निष्ठितकर्मयोगः श्रीज्ञानयोगेन समाहितात्मा । ध्याने प्रवेशं कुरुतेऽतिघोरकर्माटवीज्वालनदाववन्हौ ॥ १३ ॥ नारी-पशु-क्लीब-कुशीलवर्जितं स्थानं विविक्तं किमपि व्यपेक्षते । नानाऽऽसनानामपि यत् स्थिरं सुखं स्वस्याऽवभासेत तदेव । .
साधयेत् ॥ १४ ॥ . ध्यानाय कालोऽपि न कोऽपि निश्चितो यस्मिन् समाधिः समयः
स शस्यते । ध्यायेन्निषण्णः शयितः स्थितोऽथवाऽवस्था जिता ध्यानविघा.
तिनी न या ॥ १५ ॥ ध्यानस्य सिद्धयै दृढभावनानामावश्यकत्वं मुनयो वदन्ति । मैत्री प्रमोदं करुणामुपेक्षां युञ्जीत, तद् ध्यानमुपस्करोति ॥१६॥ सर्वेपि जीवाः सुखिनो भवन्तु मा कोपि पापाचरणानि कार्षीत् । . विमुच्यतां विश्वमशेषमेतद्, एवं मतिं नाम वदन्ति मैत्रीम्॥१७॥ देदीप्यमाना गुणगौरवेण महाशया ये भुवनत्रयेऽपि । गुणेषु तेषां खलु पक्षपातो यस्तं प्रमोदं परिकीर्तयन्ति ॥१८॥ शोकाग्निना ये परिदह्यमानाः क्षुधा तृषाऽऽर्ताः सरुजो विभीताः। तत्र प्रतीकारपरा मतिर्या कारुण्यभावः परिकीर्तिता सा ॥१९॥ ऋराशया दारुणपापसक्ताः साधुद्विषः स्वस्य च शंसितारः । ये शिक्ष्यमाणा विकृतिं भजन्ते माध्यस्थ्यमीवृक्षु भवत्युपेक्षा ॥२०॥ ध्यानं पुनः स्याद् ध्रुवमामुहूर्ताद् एकाग्रसम्प्रत्ययलक्षणं तत् । आज्ञामपायं च विपाकमेवं संस्थानमालोचयतीह योगी ॥२१॥