________________
(४०) षष्ठ-प्रकरणम् ।
ध्यानसिद्धिः।
स्यात् ज्ञानयोगोऽथ च कर्मयोग आवश्यकाऽऽचार इह द्वितीयः। 'शारीरिकस्पन्दनकर्मरूपः स कर्मयोगः शुभमातनोति ॥ १ ॥ शुद्धं तपः स्वात्मरतिस्वरूपं तं ज्ञानयोगं मुनयो वदन्ति । स उन्मनीभावत इन्द्रियार्थाद निःश्रेयसश्रीप्रतिपादकः स्यात् ॥२॥ क्रियोच्चकोटीमुपजग्मुषां याऽनावश्यकी सा व्यवहारवृत्तौ । गुणावहाऽस्तीति परम्परातोऽपवर्गसम्पादकताऽक्षताऽस्याम् ॥३॥ अभ्यस्यतोऽपेक्षत एव सम्यक् क्रिया मनःशुद्धिकृतेऽस्खलन्ती । योग समारूढवतो मुनेस्तु शमप्रवाहः परमात्मभूमौ ॥४॥
नैवाऽप्रमत्तर्षिमहोदयानामावश्यकाऽऽचारविधेयताऽस्ति । य आत्मतृप्तो यक आत्ममग्नो य आत्मतुष्टो न हि तस्य कर्म ॥५॥ मनः स्थिरीभूतमपि प्रयायाद रजोबलाञ्चञ्चलभावमाशु। प्रत्याहृतेर्निग्रहमातनोति ज्ञानी पुनस्तस्य गतप्रमादः ॥ ६ ॥ विलोलचित्तस्थिरतार्थमेव बद्धप्रयत्नः सततं मुनिः स्यात् । कुर्यादतो हेतुत एव शास्त्रोंदितां क्रियां प्रत्यहमुच्चभावात् ॥७॥ सम्यक्तयाऽभ्यस्य च कर्मयोगमनन्यसाम्यं समुपाश्रितो यः । सदाऽप्युदासीनतया स्थितस्य न तस्य भोगैर्भवति प्रलेपः ॥८॥ नाऽऽप्य प्रियं हृष्यति नोद्विजेच्च प्राप्याऽप्रियं ब्रह्मविदुत्तमर्षिः । यः स्यात् समेक्षी विषमेऽपि जीवन्मुक्तं स्थिरं ब्रह्म तमीरयन्ति।।९॥ नहीन्द्रियार्थेषु यदाऽनुरज्येत् समस्तसङ्कल्पविमुक्तचेताः । योगे समारूढतया तदानीमसौ महात्मा परिवेदितव्यः ॥१०॥