SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ( ३९ ) शाले क्षमा मार्दवमार्जवं च शौचं च सत्यं तपसंयमौ च । त्यागस्तथाऽकिञ्चनता तथैव ब्रह्मेति धर्मों दशधा बभाषे ||३४|| सक्लिष्टकर्म स्वबलीभवत्सु विशिष्टमेतन्नरजन्म लब्धम् । तत्राप्यहो ! तत्त्वविनिश्चयात्म - श्री बोधिरत्नं बहुदुर्लभत्वम् ॥ ३५ ॥ पतादृशीभिः खलु भावनाभिः सुवासितान्तःकरणो महात्मा । ममत्वलुण्ठाकविलुण्टयमानां साम्यश्रियं रक्षितुमीश्वरः स्यात् । ३६ । 1 ध्यानं समालम्ब्य समत्वमाश्रयेत् साम्यं विना तत्र कृते विडम्बना आत्मप्रबोधेन च कर्मसंक्षयो ध्यानेन साध्यः स च तत् परं हितम् ॥ ३७ ॥ ध्यानं समत्वेन विना भवेन्न साम्यं विना ध्यानमपि स्फुरेन्न । परस्परांपेक्षणतस्ततस्तद् द्वयं भवेत् सुस्थिरताविशिष्टम् ||३८|| अतिदारुणपापभारिणोऽ यमुना ध्वस्त समस्तकर्मकाः । परमात्मदशां प्रपेदिरे परमध्यात्ममिदं विदुर्बुधाः ॥ ३९ ॥
SR No.022208
Book TitleAdhyatma Tattvalok
Original Sutra AuthorN/A
AuthorMotichand Jhaverchand Mehta
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1920
Total Pages992
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy