SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ( ३८) महीपतिश्चक्रधरः सुरेश्वरो योगीश्वरो वा भुवनत्रयेश्वरः । . सर्वेऽपि मृत्योरुपयान्ति गोचरं तदत्र कः स्याच्छरणं शरीरिणः! ॥ २३ ॥ भवोदधिर्जन्मजरावसान-पयःप्रपूर्णः स्मरवाडवश्च । मोहात्मकाऽऽवर्त्त-विपत्तिमत्स्यः कुतः सुखं सम्भवतीदृशीह?॥२४॥ एकाकिनः प्राणभृतो गतागतं कुर्वन्ति संसारवने भयङ्करे। : अन्यार्थमुत्पाद्य धनं भवान्तरं प्रयात एकः परिपीड्यतेऽसुमान् ॥ २५ ॥ विलक्षणः सर्वबहिष्प्रपञ्चतः सञ्चिन्महानन्दमयोऽस्ति चेतनः । इदं शरीरं स्फुटमन्यदात्मनः कस्तानन्यो भुवनेऽभ्युपेयते? ॥२६॥ द्वारैः स्रवद्भिर्नवभिः सदैवाऽशुचीन घृणायाः पदमस्ति कायः । तथाप्यहो! तत्र यदस्ति शौचसंकल्पनं मोहविलास एषः ॥२७॥ मनोवचोभूघनकर्म योगाः स आस्रवः कर्मण आस्रवेण । . शुभाशुभं कर्म शुभाशुभाद्धि योगान्निबध्नन्ति शरीरभाजः ॥२८॥ यथाम्बु गृहाति हि यानपात्रं छिद्रैस्तथा चेतन एष कर्म । योगाऽऽत्मरन्धेरशुभैः शुभैर्वा निर्यात्यमुष्मिन् सति नो भवाब्धेः .. ॥ २९ ॥ निरोधनं यत् पुनरास्रवाणां तं संवरं योगिन ऊचिवांसः । विभावनादास्रव-संवरस्य भवादुदासीनतया मनः स्यात् ॥३०॥ स्यात् कर्मणां निर्जरणं च निर्जरा द्विधा सकामेतरभेदतः पुनः। पाकः फलानामिव कर्मणामपि स्वतोऽप्युपायादपि सम्प्रजायतें ॥ ३१ ॥ यथाऽस्ति जीवैश्च जडैश्च पूर्णी लोकोऽयमेवं परिचिन्तनं यत् । सा भावना लोकविचाररूपा मनोवशीकारफलप्रधाना ॥ ३२ ॥ जगत् समुद्धर्तुमनल्पदुःखपङ्कादहो ! कीदृश एष धर्मः । .. प्रदर्शि लोकोत्तरपूरुषैर्यत्सेवात आप्नोति महोदयत्वम् ॥ ३३ ॥
SR No.022208
Book TitleAdhyatma Tattvalok
Original Sutra AuthorN/A
AuthorMotichand Jhaverchand Mehta
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1920
Total Pages992
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy