SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ (४७) नवीन विज्ञानचमत्कृतानां न मोक्षशास्त्रेषु घृणा विधेया। चित्रप्रयोगा बहवो भवन्तु न युज्यतेऽध्यात्मपथस्तु हातुम् ॥१०॥ जडेऽप्यनन्ता सममानि शक्तिरेवं च सम्यग्विहितमयोगैः । आश्चर्य हेतुर्घटना भवेञ्चेत् किं तर्हि युक्ता जडमोहलीला ?॥११॥ सीमा न खल्वस्ति चमत्कृतीनां भूमण्डले चेत् कुशलः प्रयोक्ता। परं च ताभिन हि कर्मसृष्टिाहन्यते शुष्यति नापि मोक्षः॥१२॥ अवश्यमाविष्कृतयो भवन्तु महोपयोगा हि जनस्य सन्ति । स्मृतेबहिः स्याद् न तु साध्यबिन्दुरात्माभिमुख्यं खलु सारमन्ते॥१३।। इति सुबोधसुवासितमाशयं कुरुत काइक्षत चात्मसमुन्नतिम् । सति बलीयसि तत्र मनोरथे प्रयतनं सुलभीभविता स्वतः ॥ १४ ॥ तदेवं सक्षिप्तं गदितमिदमध्यात्मविषये मया स्वल्पज्ञेनाऽपि परिदृढसंस्कारविधये । समालोकिष्यन्ते किल सहृदयाः सादरदृशा प्रबुद्धेऽस्मात् कस्मिश्चन मम कृतार्थत्वमधिकम् ॥ - -
SR No.022208
Book TitleAdhyatma Tattvalok
Original Sutra AuthorN/A
AuthorMotichand Jhaverchand Mehta
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1920
Total Pages992
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy