________________
( ३५ ) लोभार्दितः किं न करोति कष्टं लोभाऽऽहतः किं न करोति कर्म । करोत्यनर्थ पितृ-बान्धवानामप्याशु लोभच्छुरिकाहताक्षः ॥६९॥ संक्लेश्य ये निष्करुणं प्रजातो धनं गृहीत्वा पुपुषुः स्वकोशम् । भयङ्करं भूरि विधाय युद्धं प्रादर्शि यैश्च प्रलयावभासः ॥७०॥ लोभार्दितास्तेऽपि हि मृत्युकाले न किञ्चिदादातुमलंबभूवुः। एकाकिनो रङ्कमुखाः प्रयातास्तस्मात् किमर्थ विदधीत लोभम् ? .
॥७॥ युग्मम् । केनापि साधं न गता धरेयं लोभेन ताम्यन्ति वृथैव मन्दाः । विवेकमाधाय विचार्यते चेत् सन्तोष एव प्रतिभाति सौख्यम् ७२।। न कर्तुमुधोगमियं न वार्ता परन्तु लोभोत्थविकल्पधुमैः। मनः सदा श्यामतया वृथैव कार्य गृहस्थैरपि हन्त ! कस्मात् ।।७३।। कृते प्रयासे प्रचुरेऽपि यन्न संसिद्धिमाप्नोति समीहितोऽर्थः । सक्लिश्यते तेन, परं विचार्य यदस्मदीयं न हि तत् परेषाम् ॥७४॥ बहुप्रयत्नैरपि नार्थ सिद्धिः कस्याप्ययत्नादपि कार्यसिद्धिः। एतद् ध्रुवं कर्मबलं विचार्याऽनिष्टप्रसङ्गेऽपि न खेदवान स्यात् ७५॥ क्रोधस्य रोधे प्रशमो बलीयान् मानाय शक्नोति पुनर्मुदुत्वम् । मायां प्रहातुं प्रभुताऽऽर्जवस्य लोभस्य शत्रुः परितोष एकः ॥७६।। क्रोधादिकाऽऽविर्भवनप्रसङ्गाः प्रागेव सञ्चिन्त्य विमोचनीयाः। प्रसङ्गसम्प्राप्तकषायतायामुक्तानुपायांस्त्वरया भजेत ॥ ७७ ॥ सञ्जन्येत यथा यथाऽबलतया क्रोधादिभिर्दूषणैः
सञ्चेष्टेत तथा तथा शुभम तिस्त्यक्त्वा प्रमाद स्थितिम्। .. यः क्रोधादि विकारकारण उपप्राप्ते च नाऽऽक्षिप्यते
प्राप्तुं योगधराधरस्य शिखरं नासौ विलम्बक्षमः ॥ ७८ ॥
-
* अभ्यदीयेन चतुर्थपादेन पूर्तिः ।
.. ...
....