________________
( ३४ )
संसार सिन्धोः परिलङ्घनार्थमध्यात्मपोते बहुभागलभ्ये । चे छिद्रलेशोऽपि हि दम्भनामा न तर्हि तत्पारगतिस्ततः स्यात् ५७
घने हुताशः कलहः सुहृत्त्वे रोगः शरीरे कमले हिमं च । यथा तथा दम्भ उपप्लवोऽयं धर्मेऽवसेयः सुविचारवद्भिः ||५८ || प्रयोजनं किं नु मुनिव्रतानां दम्भो यदेभिः परिषेवितव्यः ? | दम्भTवकाशो नहि सत्प्रवृत्तावसत्प्रवृत्तौ पुनरुच्यते किम् ? ॥ ५९ ॥
एकान्ततो नानुमतिर्मुनीशां न वा निषेधोऽस्त्यपवादतस्तत् । क्वापि प्रसङ्गे नहि दम्भवृत्तिर्युक्ता विधातुं भयमस्ति कस्मात् ? ॥६०॥
अहो ! समालम्ब्य बकप्रवृत्तिं प्रवञ्चकैर्वञ्चयत एष लोकः । परन्त्वमीभिः प्रविचारणीयं प्रवञ्चितः स्याद् निजचेतनोऽपि ॥ ६१ ॥
निःशल्यभावव्रतपालनस्योपदेशधारां ददिरे मुनीन्द्राः । एवं हि योगैकपदीप्रवेशः, किं भूरिणा शास्त्र रहस्यमत्र ||६२||
2
लुण्टाक एकः खलु मोक्षमार्गे सम्प्रस्थितानां सुमहाशयानाम् । सलोभनाम्ना जगति प्रसिद्धो मोहस्य राज्ञः प्रथमः प्रधानः ||६३||
संसारमूलं किल लोभ एको मोक्षस्य मूलं तदभाव एकः । एतद्धि संसार - विमुक्तिमागे दिग्दर्शनं योगबुधा अकार्षुः ||६४||
सुदुर्जयानां प्रथमोऽस्ति लोभस्तस्मिन् जिते किं न जितं त्रिलोक्याम् ? लोभस्य घाते हत एव मोहः क्रोधादिनाशेऽप्यवशिष्यतेऽसौ ||६५ || लोभोऽस्ति चिन्तालतिकासु कन्दो रक्षो गुणानां कबलीकृतौ च । महांश्च विघ्नः पुरुषार्थसिद्धौ जयत्यमुं सत्वसमुद्रचेताः ॥ ६६ ॥
चेत् सात्विकस्ते पुरुषाभिमानो लोकाग्रणीत्वे यदिचायियासा । Fort परिस्फारय तह लोभ वप्रं प्रभॐ पुरुषार्थमुचैः ||६७||
ये स्वेच्छया पूरयितुं क्षमन्ते न शाकतोऽपि स्वककुक्षिरन्ध्रम् । आन्दोलितान्तःकरणा नृपश्री - प्रेप्सासमीरेण भवन्ति तेऽपि ॥ ६८ ।।