________________
( ३३ )
भषस्वरूपं परिचिन्त्य तस्माद् निवार्यतां मानभुजङ्गमोऽयम् । नैवाऽमृतं तत्सहचारितायां भवेत् परं मोहविषोपभोगः ।। ४५ ।।
माया मता योगलताहुताशी ज्ञानार्गला दुर्भगतानिदानम् । आत्मार्थिना संद्वयवहारलक्ष्मीस्पृहावता वा परिहीयतां सा ||४६ ॥
पदे पदे दम्भमुपासते ये लक्षाधिपास्ते भुवि वीक्षिताः किम् ? | न न्यायतः किं व्यवहारवृत्तिर्यत् स्वाय दम्भाचरणं क्षमं स्यात् ?
॥ ४७ ॥
न्यायप्रतिष्ठः पुरुषो भवेश्चेद् व्यापारतोऽसौ नियमात् सुखी स्यात् । न्यायस्य मार्गेण वरं बुभुक्षा नाऽन्यायमार्गेण परं प्रभुत्वम् ||१८||
कौशल्यमा बिभ्रति सात्त्विकं ये न्यायप्रतिष्ठा विकसद्विवेकाः । - पापास्पदं ते प्रविदन्ति मायां विनैव तां स्वार्थमुपार्जयन्ति ॥ ४९ ॥
अनेकशः पश्यति सर्वलोकः कृतेऽपि दम्भाचरणे प्रकृष्ठे | अर्थों न सिद्धिं लभते, तदेवमर्थस्य सिद्धौ स कुतो निमित्तम् ? || ५० ॥
इयं च माया जननी तदीया यः सर्वदोषेषु पुरःसरोऽस्ति । आख्या मृषावाद इतीदमीया न सज्जनः सेवति तेन मायाम् ॥ ५१ ॥
अप्रत्ययानां प्रसवस्य भूमीमपारसन्तापसमर्पयित्रीम् । शल्यं महश्चेतसि कः सुमेधा मायामुपासीत विवर्जनीयाम् ? ॥ ५२ ॥
कुर्वन्ति ये दुःखि मनः परस्य प्रतारणातो बहुभिः प्रकारैः । पुष्णन्ति हिंसाविषवल्लरीं ते दूरे दयाऽऽरामत ईदृशः स्युः ॥५३॥
पिपीलिकादीन् लघुदेहभाजो रक्षन्ति यत्नैर्मनुजान् पुनयें । प्रपातयन्त्यापदि वञ्चयित्वा दयालवस्ते न हि, किन्तु पापाः ॥५४॥
अस्त्येकतो वञ्चनतत्परत्वं देवस्तुतौ गर्जनमन्यतश्च । एतादृशा नो किमपि त्रपन्ते कृतेन सम्यक् तिलकेन भाले || ५५ ॥
प्रवञ्चकत्वे सति सन्निपातेऽनुष्ठानदुग्धं विकृतिं प्रयाति । उत्खन्य मायां विशदीकृतायां मनोभुवां बीजकमङ्कुराय ॥ ५६ ॥
5