________________
(३२) सभ्यत्वदुग्धं यदि रक्षणीयं तद् दर्पसर्पण न सङ्गतं स्यात् । ... विद्यासुधादीधितिशीतभासो मानाभ्रविक्षेपणतः स्फुरन्ति ॥३४॥ मानः पदार्थे क्व विधातुमर्ह इत्येव सम्यग् हृदि चिन्तनीयम् । प्रत्यक्षमालोक्यत एव विश्वे कुतोऽपि कोऽप्यस्त्यधिको हि मर्त्यः३५।। अनन्यसाधारणबुद्धिमत्त्वमनन्यसाधारणशक्तिमत्त्वम् । अनन्यसाधारणभाषकत्वं क्वाऽस्मासु कुर्याम यतोऽभिमानम्! ॥३६॥ न श्रीः प्रसन्ना प्रविकासिदृग्भ्यां न भारती दत्तवती वरं च । अलौकिकं कर्म कृतं न किञ्चित् तथाप्यहो! दर्पसमुद्धतत्वम् ! ॥३७।। न धोरिमा वा न गभीरिमा वा न सासहित्वं न परोपकारः।। महान गुणो वा नहि कोऽपि तादृक् तथापि गर्वः किमतः महास्यम् ?
॥३८॥ रूपेण शक्रप्रतिमोऽपि मर्त्यः कालान्तरे म्लानिमुपैति रोगैः । राज्ञोऽपि रङ्कीभवनं स्फुटं च कस्तर्हि मानाचरणे मतोऽर्थः? ॥३९॥ सामान्यवर्गः खलु लक्षनाथमसौ च कोटीशमसौ च भूपम् । असौ च सम्राजमसौ च देवमसौ च देवेन्द्रमसौ मुनीन्द्रम् ॥ १० ॥ असौ च सर्वज्ञतया विभान्तमसौ च विश्वत्रितयेशितारम् । सम्यक्तया यद्यवलोकयेत कुतस्तदोन्मादकताऽवकाशः ? ॥४१॥
युग्मम् । यत्पादपद्मे मधुपन्ति सर्वे सुरेश्वरास्ते जगदी शितारः ।। दर्पोष्मलेशादपि सम्प्रमुक्ताः किं नः क्षमस्त भिमानलेशः? ॥४२॥ निमील्य नेत्रे हृदयं निवेश्य प्रशान्ततायां परिचिन्तनायाम् । स्वयं पाया* अभिमानचेष्टा संजायतेऽत्रानुभवः प्रमाणम् ॥४३॥ महाव्रताम्भोरहरात्रिणा च तपःसुधादीधितिराहुणा च । न यो जनः सञ्चरतेऽभिमानाध्वना स धन्यः सुरगेयकीर्तिः ॥४४॥ . . * चतुर्थी ।