________________
(३१) स्थातव्यमत्रास्ति कियहिनं यत् कोपामिना प्रज्वलनं क्षमं स्यात् । यथैहिकार्थे क्षम एव कोपः पारत्रिकार्थे प्रशमो न तहिं ? ॥२३॥.
यमान् कुरुवं नियमान् कुरुवं क्रियां कुरुवं च तपः कुरुध्वम् । न चेत् समस्ति प्रशमावगाहः काऽऽशा तदभ्यः फलमुच्चमाप्तुम्?
॥ २४ ॥
मनश्च वाचा च वपुश्च यस्याऽवगाहते क्षान्तिसुधासमुद्रे। धन्यः कृतार्थः सुकृती महात्मा कलावपि प्रेक्ष्यमुखाम्बुजोऽसौ ॥२५॥
क्रोधान्धलीभूय यदेव कार्य करोति सद्यो विपरीतरूपम् । तदेव कोपोपरमे पायै दुःखाय च स्याद्, धिगहो! अविद्या ॥२६॥
आक्रोशने वा परिताडने वा योगप्रवाहे स्थितवानृषिस्तु । ध्यायेद्-'न मे किञ्चन नाशमेति सच्चित्स्वरूपं मम निश्चलं यत्'
॥२७॥
उच्चस्वरूपः प्रकटो यदा स्याद् देहाऽऽत्मनोभिन्नतया प्रकाशः। छिन्ने च भिन्ने च तदा शरीरे नाऽत्मा भवेत्' स्वात्मरतो विकारी
॥२८॥
क्रिया सुसाधा च तपः सुसाधं ज्ञानं सुसाधं नियमाः सुसाधाः। दुःसाध एकः स च कोपरोधः स साधितः साधितमप्यशेषम् ॥२९॥ रोषो विधातुं न हि यत्र तत्र युक्तो गृहस्थैरपि वेदितव्यम् । सर्वत्र सर्वेष्वपि घोषयामः- क्रोधस्य मन्दीकरणन्तु युक्तम्॥ ३०॥ अनेकशास्त्राणि विलोकितानि रहस्यमध्यात्मगिरां च लब्धम् । तथापि लब्धा यदि नो तितिक्षा ज्ञेयस्तदाऽसौ हृदयेन मूर्खः ॥३॥ यावन्न मानादिकदूषणानां रुद्धः प्रचारो नहिं तावदेषः । शक्यः समापादयितुं निरोधं मानादिदोषा अपि तेन हेयाः ॥३२॥ विवेकनेत्रं हरताऽस्मदीयं मानेन तीव्रो विहितोऽपराधः । । न त्यज्यते तच्छ्यणं तथापि सम्मूढता कीदृगतः परं स्यात् १॥३३॥