________________
( ३० )
निशम्य दुर्भाषितमन्यदीयं नातन्वते रोषमुदारचित्ताः । सम्पादनीयः सहनस्वभावः शाठ्यं शठाग्रे नहि कर्तुमर्हम् ॥ ११ ॥
क्रोधं च कस्माद् विदधीत योगी ? दुर्भाषितैः स्यान्न हि कोपि रोगः । न वा यशः श्रीर्लभते विलोपं द्रव्यस्य हानेरपि नास्ति वार्त्ता ॥१२॥
रोषेण वैरं लभतेऽवकाशं वैरात् पुनः सत्वगुणप्रहाणिः । एवं स्खलेत् सञ्चरमाण आत्मोन्नत्यध्वना रोषसमाश्रयेण ॥ १.३ ॥
रुष्यजनं प्रेरयतेऽस्मदीयं प्राचीनकर्मेत्यथ चिन्तनीयम् | पराश्रये रुष्यति वा प्रकोपः प्रयोजके कर्मणि वा विधेयः ? || १४ ||
कृतापराधे यदि नाम कोपो न कर्म किं तहिं कृतापराधम् ? | एतत् प्रभासेत विचार्यमाणं सर्वेऽपराधाः खलु कर्मराजः ॥ १५ ॥
त्रैलोक्यचूडामणयोऽपि देवाधिदेवतास्ताडन - तर्जनादि । वितेनुषः क्षान्तिभरैरपश्यन् क्षमा तदेवं न हि किं क्षमा नः १ ॥ १६ ॥ प्रकम्पमानौष्ठक - रक्तनेत्र - प्रस्वेदसंक्लिन्नमुखारविन्दम् । क्रुध्यन्तमालोक्य विचारशीलैर्ज्वरीव मान्यः करुणाऽऽस्पदं सः॥१७॥
ज्वरातुरे कुर्वति दुर्वचांसि यथा न कोपः क्रियते दयातः । तथा दयादृष्टित एव दृश्यः क्रोधज्वराट्र दुर्वचनानि कुर्वन् ||१८||
वनस्पतित्वे च पिपीलिकात्वे समागतोऽनेकश एष आत्मा । तदाऽभिमानो गलितोऽस्य कुत्र न सह्यते सम्प्रति दुर्वचो यत् १ ॥ १९ ॥
आक्रोशशान्तिर्मधुरैर्वचोभिराक्रोशतोऽसौ पुनरेति वृद्धिम् । प्रदीपनस्य प्रशमाय वारि क्षिपन्ति नोत्तेजकमिन्धनादि ||२०|
दूरीकृताः सम्पद उज्झिता स्त्री नीतः समग्रः स्वजनोऽप्युपेक्षाम् । अथ प्रकोपाचरणं किमर्थं तथाप्यसौ चेद्र हतभागतेयम् ॥ २१ ॥
htsस्त्यस्मदीयो भुवनत्रयेऽपि कर्त्तुं कुधं यत्र किलाधिकारः ? | संसर्ग एषोऽस्ति च कर्मकल्प्यो न्याय्यं प्रकोपाचरणं न तस्मात् ||२२||