________________
(२९)
चतुर्थ-प्रकरणम् ।
कषायजयः ।
आत्मस्वरूपं प्रथमं प्रविद्युर्योगश्रियां प्रोत्सहमान चित्ताः । स एव योगस्य यदस्ति भूमिराकाशचित्रोपममन्यथा स्यात् ॥१॥ आत्मक्षेत्रे योगतः कृष्यमाणे सम्यग्रूपैः सन्ततं प्रौढयत्नैः । सम्पद्यन्तेऽनन्तविज्ञानवीर्याऽऽनन्दा नास्ते संशयस्याऽत्र लेशः ॥२॥
इदं पदार्थद्वितये समस्तमन्तर्भवन्न व्यतिरिच्यतेऽतः । जडस्तथा चेतन इत्यम् द्वौ, जडेन चैतन्यमुपावृतं नः ॥ ३ ॥ प्रसिद्धमेतश्च जडस्य योगात् क्लेशान् विचित्रान् सहते सदाऽऽत्मा । विवेकबोधे प्रतिभाति देहाद् दुःखातिथिः स्यात् कुत एष आत्मा ?
॥ ४॥
संक्लेशानामेकमेवास्ति मूलमात्माज्ञानं तच्च धीरा बदन्ति । आत्माज्ञानोद्भूतदुःखं प्रणश्येद् आत्मज्ञानाद्, अन्यथा नो तपोभिः
॥५॥
संसार आत्मैव जितः कषायेन्द्रियैः स एवेतरथा च मोक्षः । क्रोधादयस्तत्र कषायसञ्ज्ञाश्चत्वार उक्ता भववृक्षमेघाः ॥ ६ ॥ यो वैरहेतुः परितापकारणं शमार्गला दुर्गतिवर्त्तनी पुनः | उत्पद्यमानः प्रथमं स्वमाश्रयं दहेद् दहेद् वन्हिरिवापरं न वा ||७|| क्रोधस्य तस्य प्रशमे क्षमा क्षमा क्षमाऽऽत्मसाम्राज्यपरिस्पृहावताम् । या संयमाऽऽरामविशालसारणिः क्लिष्टाघभूमीधरभेदनाशनिः ||८|| युग्मम् ।
क्रोधः प्रसिद्धो मृदुमध्यतीनाद्यनेकभेदैः सकलानुभूतौ । यादृक्स्वरूपः स उदेति तादृग्रसानुविद्धं वितनोति कर्म ||९|| योगस्य पन्थाः परमस्तितिक्षा सा क्रोधदावानल मेघवृष्टिः । यस्तामृतेऽभीप्सति योगलक्ष्मीं हलाहलाद् वाञ्छति जीवितं सः ॥ १०