________________
( २८ )
असङ्गवृत्त्याख्यकसत्प्रवृत्तिपदं प्रभायां लभते मुनीन्द्रः । प्रशान्तवाहित्वमपीदमेवेदमेव नामान्तरतोऽन्य आहुः || १२७ ||
:
दृष्टिः परा नाम समाधिनिष्ठाऽष्टमी तदासङ्गविवर्जिता च । सात्मकृताऽस्यां भवति प्रवृत्तिबांधः पुनश्चन्द्रिकया समानः || १२८||
अस्यां निराचारपदो मुनीश्वरः श्रीधर्मसंन्यासबलेन केवलम् | Localत्तमं योगमयोगमन्ततः प्राप्यापवर्ग लभतेऽस्तकर्मकः ॥ १२९ ॥
तृणगोमयकाष्ठहव्यभुक् - कणदीपप्रभयोपमीयते ।
अथ रत्न-भ-भानु-चन्द्रमः
प्रभया बोध इह क्रमात् पुनः ॥ १३० ॥
खेदादिदोषा इह निर्गतास्तथाऽ
द्वेषादिका अष्ट गुणाः श्रिताः क्रमात् । इत्येवमङ्गाष्टकमष्टकं दृशां
सैंक्षेपतोऽदश्येत योगिसम्मतम् ॥१३१॥