________________
(२७) प्रत्याहृतेर्ग्रन्थिविभेदनेन स्फुरद्विवेकोज्ज्वलमानसानाम् । संसारचेष्टा प्रतिभाति बालधूलीगृहक्रीडनसन्निभैव ॥ ११५ ॥ तत्त्वं परं ज्योतिरिह ज्ञरूपं वैकल्पिकः सर्व उपप्लवोऽन्यः । एवं च भोगो भवभोगिभोगाऽऽभोगस्वरूपः प्रतिभासतेऽत्र ॥११६॥ रत्नप्रभाया उपमोदिताऽत्र सूक्ष्मावबोधस्य समन्वयोऽपि । प्रत्याहृतिः सा पुनराचचक्षे समाहृतिर्याऽर्थत इन्द्रियाणाम् ॥११७।। अवेद्यसंवेद्यपदाद् विरुद्धं स्याद वेद्यसंवेद्यपदं स्थिरायाम् । एतत् पुनर्ग्रन्थिविदारणोत्थं रुचिप्रकारं मुनयो वदन्ति ॥११८॥
ततश्च कान्तादृशि संप्रवेशस्ताराप्रभाभं ध्रुवदर्शनं च । चित्तस्य देशे स्थिरबन्धनं यत् तां धारणामत्र वदन्ति सन्तः॥११९॥ स्थिरस्वभावादिह नान्यमुच्च मीमांसनाया अपि संविकासः । सम्यस्थितः स्यादथ धारणायां लोकप्रियोधर्मसुलीनचेताः॥१२०॥ मायाजलं तत्वत ईक्षमाणोऽनुद्विग्न एत्याशु यथाऽस्य मध्यात् । भोगान् स्वरूपेण तथैव मायाऽम्बुवद् विदन् भुङ्क्त उपैति मोक्षम्
॥१२॥ न धर्मशक्तिं प्रबलाममुष्यां भोगस्य शक्तिः क्षमते विहन्तुम् । दीपापहो गन्धवहो ज्वलन्तं दवानलं नेतुमलं शमं किम् ?॥१२२।। मीमांसना दीपिकया समाना मोहान्धकारक्षपणेऽत्र भाति। तत्त्वप्रकाशप्रसरेण तेनाऽसमंजसस्याऽपि कुतः प्रचारः ? ॥१२३॥ दृष्टिः प्रभाऽर्कद्युतितुल्यबोधा ध्यानैकसारा रहिता रुजा च । प्रवर्तते ध्यानसमुद्भवं शं शमप्रधान स्ववशं गरिष्ठम् ॥१२४॥ सर्व भवेद् अन्यवशं हि दुःखं सर्व भवेद् आत्मवशं च सौख्यम् । सुखासुखं वस्तुत एतदुक्तं गुणोऽत्र तत्वप्रतिपत्तिरूपः ॥ १२५ ॥ या धारणाया विषये च प्रत्ययैकतानताऽन्तःकरणस्य तन्मतम् । ध्यानं, समाधिः पुनरेतदेव हि स्वरूपमात्रप्रतिभासनं मतः १२६॥