________________
(२६) श्रीतोऽपि मित्रादपि पुत्रतोऽपि धर्मः प्रियः स्यादिह प्राणतोपि। धर्माय प्राणानपि* विक्षिपेत प्राणान्तकष्टेऽपि न तु त्यजेत् तम्॥१०३।। एवं भवक्षारपयोनिरासात् तत्वश्रुतिस्वादुजलेन पुण्यम् । बीजं प्ररोहप्रवणं करोति सम्यङ्मतिः सद्रुभूरिभक्तिः ॥१०॥ मिथ्यात्वमस्मिश्च दृशां चतुष्केऽवतिष्ठते ग्रन्थ्यविदारणेन । ग्रन्थेविभेदो भवति स्थिरायांत दक्चतुष्केऽत्र न सूक्ष्मबोधः॥१०॥ अवेद्यसंवेद्यपदाभिधेय मिथ्यात्वदोषाशयमूचिवांसः । तस्य प्रभावेण कृतावकाशा कृत्येष्वकृत्येष्वविवेकबुद्धिः ॥१०६।। अवेक्षमाणा अपि जन्म-मृत्यु-जराऽऽमयोपद्रवदुःखपूर्णम् । संसारमल्पेतरमोहदोषात् समुद्विजन्ते नहि देहभाजः ॥ १०७ ॥ अवेद्यसंवेद्यपदं चतुष्के दृशाममूषामपि वर्तमानम् । सत्सङ्गतस्तस्य विनिर्जयेन स्वतोऽपयात्येव कुतर्कराहुः ॥१०८॥ शमाम्बुवाहे प्रतिकूलवातं सद्बोधपद्मे च हिमोपपातम् । श्रद्धानशल्यं स्मयकारणं च प्रचक्षते योगविदः कुतर्कम् ॥१०९॥ . वादस्य मार्गाः प्रतिवादमार्गा नानाविधाः सन्ति सतां सभासु । तत्त्वान्तमाप्नोति न खल्वमीभिर्दृष्टान्त आस्ते तिलपीलकोऽत्र॥११०॥ एकेऽभियुक्ता अमुकं पदार्थ यथाऽनुमानैः परिकल्पयन्ति । अन्येऽभिरूपा अमुमेव भावमन्यस्वरूपं प्रतिपादयन्ति ॥११॥ अतीन्द्रियार्था यदि हेतुवादै विनिश्चयाध्वानमधिश्रयेयुः । एतावतः कालत एव तेषु सुनिश्चयः प्राज्ञवरैः कृतः स्यात् ॥११२॥ तस्मात् कुतर्कग्रह उज्झितव्यो नानेन कोऽप्यस्ति फलोपलम्भः । मध्यस्थभावे च कृतावकाशे सम्यग्दृशां सम्भविता विकासः॥११३।। सम्यग्दृशः सन्ति चतस्र एताः स्थिरा च कान्ता च प्रभा परा च । प्रत्याहृतिस्तत्र भवेत् स्थिरायां स्याद् दर्शनं भ्रान्ति विवर्जितं च
* छन्दोभङ्गो नात्र सम्भाव्यः । अन्यत्रापीडा स्थलेषु ।