________________
(१५) वदन्ति सन्तः, प्रतिपद्यते च दावाग्निकल्पो भव एष भीमः । विचित्ररूपास्ति च कर्मसृष्टिस्तद् भोगकीटीभवितुं न युक्तम्॥३२।।
नानाविधस्वादुरसप्रपूर्णभोज्योपभोगे प्रविधीयमाने । प्रपद्यते यद्यपवर्गलक्ष्मीर्भवे तदा को बत पर्यटन स्यात् ? ॥ ३३ ॥ अन्तःशरीरं प्रचरन्ति कर्मप्रत्यर्थिनो गुञ्जदनन्तशौर्याः। अन्नं प्रवेश्यं यदि पोषणीया नान्नं प्रवेश्यं यदि शोषणीयाः ॥३॥
सम्पादितश्चेत् तपआदरेण कष्टस्य सम्यक् सहनस्वभावः। बहुप्रसङ्गे फलवान् तदा स्याद रौद्रोन च स्याद् मरणक्षणोऽपि॥३६॥
भुक्तिः सकृद् वा रसवर्जिता वे-षदूनकुक्षिमितवस्तुभिर्वा । दिव्याशनानामपि साम्यतो वा प्रकीर्तिता सापि तपःस्वरूपा॥३६॥
गार्थस्य मन्दीकरणं तपोऽस्ति प्राप्त रहस्यं तपसोऽत्र सर्वम् । धन्या रमन्तेऽत्र विवेकदीपप्रोद्भासितात्मोन्नतिहेतुमार्गाः ॥३७॥
समग्रकर्मक्षयतोऽपवर्गो भवाभिनन्दा इमकं द्विषन्ति । अज्ञानसाम्राज्य मिहास्ति हेतुरहो! महादारुण एष मोहः ॥३८॥
संसारभोगे सुखमद्वितीयं ये मन्वते लुप्तविवेकनेत्राः । निःश्रेयसं ते समधिक्षिपन्त आश्चर्यपात्रं न सतां भवन्ति ॥३९।।
सुस्वादुभुक्तिमधुरं च पानं मनोज्ञवस्त्राभरणादिधानम् । इतस्ततः पर्यटनं यथेष्टं वयस्यगोष्ठी सुमुखीमुखं च ॥ ४०॥ इत्यादिकं शर्म बहुप्रकारकं संसारवासे प्रकटप्रतीतिकम् । मुक्तो क्व नामेति विषस्य मोदकान् प्रसारयन्त्यज्ञगणे कुबुद्धयः४१॥
युग्मम् । संसारभोगेषु सुखं यदेव प्रतीतिमारोहति दुःखमेतत् । कर्मोद्भवत्वात् क्षणभङ्गुरत्वाद् दुःखान्वितत्वादमहत्वतश्च ॥४२॥