________________
(१४) लोकापवादाद भयशीलता च सुदक्षिणत्वं च कृतज्ञता च। सर्वत्र निन्दापरिवर्जनं च सतां स्तवः प्रस्तुतयोग्यवाक्त्वम् ॥२१॥
कृतप्रतिज्ञापरिपालनं चासत्सवययत्यागविधानवत्वम् ।। नालस्यवश्यं पुनराग्रहश्च सुयोग्यकार्येषु विवेकबुद्धया ॥ २२ ॥
अदैन्यमापद्यपि, नम्रता च सम्पत्प्रकर्षे, महतां च मार्गे । समारुरुक्षाऽऽर्जवमार्दवे च सन्तोषवृत्तिः सुविचारता च ॥२३॥
लोकाऽविरुद्धाचरणानुवृत्तिः सर्वत्र चौचित्यविधायकत्वम् । एवंप्रकारः स्वयमूहनीयः सद्भिः सदाचार उदारबुद्धया ॥२४॥
चतुर्भिः कलापकम् ।
स्वजीवन कीदृशमुच्चनीति सम्पादयेद् योगपथारुरुक्षुः । तदेतदेतेन विचारकाणां मनोभुवां स्पष्टमुपागतं स्यात् ॥ २५ ॥
बहुप्रकारं तप आमनन्ति युक्तं यथाशक्ति तपो विधातुम् । देहस्य शुद्धिहृदयोज्ज्वलत्वं विधीयमानेऽत्र विवेकपूर्वम् ॥२६॥
किश्चिद् व्यथायामपि सम्भवन्त्यामनादरस्तत्र न संविधेयः । अभ्यासतोऽग्रे सुकरं तपःस्यात् कष्टादू विना कर्म न हन्यतेऽपि ॥२७॥
न रोचते भोजनमन्वहं च कस्मै?, परं तेन क इष्यतेऽर्थः । अयं भवःस्याद यदि सौख्यपूर्णस्तदा क्षमः स्याद् विषयैकसङ्गः॥२८॥
'न वास्तवो भोजनमात्मधर्मो देहस्य सङ्गेन विधीयते तु । तस्मादनाहारपदोपलब्ध्यै युक्तं तपोप्यभ्यसितुं सुधीनाम् ॥२९॥
न यत्र दुध्यानमुपस्थितं स्याद योगा न हानि पुनराप्नुवन्ति । क्षीणानि न स्युःपुनरिन्द्रियाणि कुर्यात् तपस्तत् सुविचारयुक्तम्।३०। धनस्य हेतोरथवा नियोगे स्वस्वामिनः संसहते बुभुक्षाम् । उद्देश आत्मोन्नतिसम्पदस्तु तपो यथाशक्यपि नैव चित्रम्! ॥३।।