________________
( १३ )
अपक्षपाताः शुचितत्त्वबोधा महाव्रतेषु स्थिरतां दधानाः । असङ्गिनः शान्तिसुधोपभोगा धर्मोपदेशा गुरवोऽवसेयाः || १०॥
तथाविधाः श्रीगुरवो भवाब्धौ स्वयं तरीतुं न परं यतन्ते । उद्धर्तुमन्यानपि देहभाजः परोपकाराय सतां हि यत्नः ॥ ११ ॥
नृदेवयोगीन्द्रनतः स देव आत्मश्रियं संप्रतिपत्तुमिच्छोः । स्याद् वल्लभो वल्लभवस्तुतोऽपि योगोऽस्ति दूरे न दशेदशी चेत् ॥ १२ ॥
यथार्थ देवत्वविनिश्चयस्याभावे प्रशस्ताशयतो गृहस्थैः । सर्वेऽपि देवाः परिपूजनीया नत्वाग्रहः साम्प्रतमज्ञतायाम् ॥१३॥
शास्त्रेष्वपदं विषये च चारिसंजीवनीचारनयो बभाषे । विशेषदृष्टौ च परत्र साम्याद् देवो यथार्थः परिषेवितव्यः ॥ १.४ ॥
न रागरोषादिकदोषलेशो यत्रास्ति बुद्धिः सकलप्रकाशा | शुद्धस्वरूपः परमेश्वरोऽसौ सतां मतो 'देव' पदाभिधेयः ॥१५॥
रागेण रोषेण वयं प्रपूर्णास्तथैव देवोऽपि हि सम्भवेच्चेत् । कस्तत्र चास्मासु च तर्हि भेदो विवेक्तुमर्हन्ति बुधा यथावत् ||१६||
तस्मात् स देवः खलु वीतरागः प्रियोऽप्रियोवानहि तस्य कश्चित् । रागादिसत्ताssवरणानि नाम तद्वांश्च सर्वज्ञतया कुतः स्यात् ? || १७||
!
वयं सरागाः प्रभुरस्तरागः किञ्चिज्ज्ञतास्मासु स सर्ववेदी । शरीरिणः स्मः स पुनर्विदेहोऽस्माकं समाराध्यतमः स तस्मात् ॥ १८॥
वयस्यगोष्ठीं विविधां विधातुं मिलेत् कथञ्चित् समयः सदापि । अल्पोऽवकाशोऽपि न शक्यलाभो देवस्य पूजाकरणाय हन्त ! ॥ १९ ॥
आत्मोन्नतिं वास्तविकीं यदीयं समीहतेऽन्तःकरणं स मर्त्यः । . उपासनार्थ परमेश्वरस्य कथञ्चिदाप्नोत्यवकाशमेव ॥ २० ॥