________________
समस्तकर्मक्षयतोऽखिलार्थप्रकाशयुक्तं सुखमद्वितीयम्। : यस्मिन् त्रिलोकीसुखमस्ति बिन्दुर्मुक्तौ क इच्छेन्नहि ?, को भवेदू
हिट् ? ॥४३॥ एवं च मुक्तावनुकूलवृत्तिरवायुपायोऽभिहितेषु मुख्यः। यस्मिन् स्थितेऽन्येऽपि भवन्त्युपाया यत्रास्थिते व्यर्थ उपायराशिः
॥४४॥
इत्येव योगप्रथमाधिकारिप्रवर्तनं किञ्चिदिदं न्यगादि । यथावदस्मिन् पथि सञ्चरन्तः सम्यग्दृशो ग्रन्थि भिदा भवन्ति ।४५।
अर्धे परावर्तननामकालेऽवशिष्ट उत्कृष्टतया भवन्ति । सम्यग्दृशो मोक्षपदस्य लाभेऽप्ययं विलम्बोऽर्थत एव भूयान्॥४६॥
विमलः परिणाम आत्मनः
किल सम्यक्त्वमुदीरितं बुधैः।। अपवर्गपुरप्रवेशनं न हि मुद्रामनवापुषामिमाम् ॥४७॥
-