________________
तदेवं संसारं विषयविषदुःखैकगहनं
विदित्वा निःसंगीभवति रमते चाऽऽत्मनि बुधः ॥११॥ पूर्णानन्दस्वभावः परमविभुरयं शुद्धचैतन्यरूपः
सर्वोद्भासिप्रकाशोऽहह तदपि जडैः कर्मभिः सम्प्रविश्य । म्लानिं नीतो नितान्तं तदथ विमलतां नेतुमेनं यतध्वं
प्रागुक्तं चात्र भूयः स्मरत दृढतया कर्मभूमिः स मोहः।।११५॥ कृत्वा स्वस्थं हृदयकमलं मुक्तबाह्यप्रसङ्गं
शान्त्यारामे समुपविशतो-द्धर्तुमात्मानमेनम् । मन्त्रं हहो ! कुरुत सुधियोऽनादितः पाशबद्धं
कः स्यात् स्वात्मोपरि हतदयो मूढधीशेखरोऽपि ? ॥११६।। इत्येवं गृहिणोऽपि चेतसि सदा सद्भावनाऽऽलम्बनाद्
अध्यात्म रचयन्ति संविदधतः संसारकार्याण्यपि । एतेनैव पथा च तेऽपि विषमाद् मुच्यन्त एतद्भवाद्
इत्येवं परिदर्शितः परिमितोऽध्यात्मोपदेशो मृदुः ॥११७॥
इति " प्रकीर्णक उपदेशः" प्रथमं प्रकरणम् ।