________________
स्वर्ण यथा शुध्यति वह्नितापाद् विपत्प्रसंगेऽपि तथा महात्मा। विपत्प्रसंगः खलु सत्त्वहेम्नः परीक्षणे स्यात् कषपट्टिकेव ॥१२॥ प्राप्ता विपत्तिनियमेन भोग्या दुर्ध्यानतो नैव निवार्यते सा । एवं च शान्त्या विपदं सहेत दुानतः प्रत्युत कर्मबन्धः ॥९३॥ किं भोः! प्रयासादपि वाञ्छितार्थाऽसिद्धर्भृशं ताम्यसि रोदिषित्वम्।। किं साम्प्रतं स्याद् रुदितेन?, पूर्व पापप्रवृत्तौ न विचारितं किम्?॥९॥
अध्यात्मविद्यारमणैकलीनाः स्वरूपलाभाय सदा यतन्ते । स्वरूपलाभे सति नास्ति किश्चित् प्राप्तव्यमित्यात्ममुखः सदा स्यात्।।
॥९५॥ अयं जनो मातृमुखः शिशुत्वे तारुण्यकाले तरुणीमुखश्च । जराऽऽगमे पुत्रमुखः पुनः स्याद मूर्खः कदाप्यात्ममुखस्तु न स्यात् ।९६। आदौ भवेच्छूकरवत् पुरीषे ततः पुनर्मन्मथगर्दभः स्यात् । जरद्गवः स्यात् जरसः प्रहारे पुमान् पुनर्नैव पुमान् कदापि ॥९७॥ लाभार्थमाध्यात्मिकजीवनस्य देवा अपीच्छन्ति नृजन्म लब्धुम् । तदेव किं त्वं मलिनीकरोषि प्रमादपङ्के हृदि चेत किञ्चित् ॥९८॥ जीर्णा जरा किं मरणं गतं किं रोगा हताः किं युवता स्थिरा किम्। किं सम्पदी वर्जितविप्रयोगा यनिर्विशंको विषयानुषङ्गः ? ॥९९॥ पहिन्द्रियत्वे दृढमानसत्वे सुस्थे च देहे पुरुषार्थ सिद्धौ। यतस्व, वार्धक्य उपागते तु किञ्चिन्न कत्तुं प्रभविष्यसि त्वम् १०० कर्मोद्भवं नाटकमेतदस्ति क्षणाद विलीनं शरदभ्रवत् स्यात् । स्फुटेप्यहो! पुद्गलवैसदृश्ये मोहं कथं नोज्झसि बालबुद्धे ! ॥१०॥ उपस्थिते कर्मणि दुर्विपाके राज्यादि सर्व विलयं प्रयाति । क्षुत्क्षामकुक्षिप्रतिपूरणार्थ गृहे गृहे भिक्षितुमप्युपेयात् । ॥१०२।। कर्मस्थितिर्यावदपेयुषी न भवेदवश्यं सुखदुःखसत्वम् । दुःखप्रहाणेन सुखं प्रपित्सोरकर्मकीभावमृते न पन्थाः ॥१०॥