________________
(८) अभ्युन्नतिश्चावनतिश्च यत् स्यात् पुण्यस्य पापस्य च कार्यमेतत् । क्षीणे च पुण्येऽभ्युदयो व्यपैति तन्नश्वरे शर्मणि को विमोहः? ॥८॥
संवेद्यते यत् सुखमद्वितीयं कदापि माध्यस्थ्यलवोपलम्भे । प्रशस्तकौघजसौख्यराशिरप्यस्य नैवाऽर्हति तुल्यभावम् ॥८॥
ऐश्वर्यमालोक्य भुवां विचित्रं चित्रीयसे मुह्यसि वा कथं त्वम् ? । न किञ्चिदेतत् सुरसम्पदोऽग्रे विपाक एवाऽस्ति च कर्मणोऽसौ ॥८२॥
इन्द्राः सुरा भूमिभुजः प्रधाना महाप्रतापा अधिकारिणश्च । सर्वेऽपि कर्मप्रभवा भवन्ति कस्तत् सतां कर्मफले विमोहः॥८३।।
सदा निरीक्षेत निजं चरित्रं यच्छुद्धिमाप्नोति विहीयते वा। हानि च वृद्धिं च धनस्य पश्यन् जडश्वरिने न दृशं करोति ॥८॥
करोषि दृष्टिं न गुणे परस्य दोषान् ग्रहीतुं तु सदाऽसि सजः । युक्तं न ते शुकरवत् पुरीषे परस्य दोषे रमण विधातुम् ॥८५।। दोषानुबद्धः सकलोऽपि लोको निर्दषणस्त्वस्ति स वीतरागः । न किं पुनः पश्यसि दह्यमानमहो! स्वयोरेव पदोरधस्तात्॥८६॥ वृथाऽन्यचिन्तां कथमातनोषि ? वृथाऽन्यकार्थे किमुपस्थितः स्याः?। किं धूमपुञ्ज यतसे ग्रहीतुं विस्तारयन् चेतसि दुर्विकल्पान् ॥८७॥ बिभेषि दुःखाद यदि साधुबुद्धे . दुःखानुकलां त्यज दुष्प्रवृत्तिम् । नेष्टो वियोगः सुखसम्पदश्चेत् चरित्रमापादय तर्हि शुद्धिम् ॥ ८८ ॥ सुखं च दुःखं च शरीरिपृष्ठे लग्ने सदा कर्मविचित्रतातः । मत्तो न तु स्यात् सुखसम्प्रयोगे न व्याकुलःस्याच्च विपत्प्रयोगे॥८९॥ निशाविरामे दिनमभ्युदेति दिने समाप्ते च निशोपयाति। तथैव विश्वे सुख-दुःखचक्र ज्ञात्वा सुधीः स्यादून कदाप्यधीरः ९०।। उदेति रक्तोऽस्तमुपैति रक्तः सहस्रभानुर्विदितो यथैषः । तथा महान्तोऽपि महोदयत्वे विपत्प्रसंगे पुनरेकरूपाः ॥११॥