________________
( ७ )
अदाद् विपत्तिं सकृदेव योऽत्र भूयः कदाप्याद्रियते स नैव । चित्रं पुनः सेव्यत एव देहो योऽनादिकालादू दददस्ति दुःखम् ||६९॥
तस्मात् परित्यज्य शरीरमोहं चित्तस्य शुद्धयै सततं यतस्व । न देहशुद्ध पुरुषार्थसिद्धिश्चित्ते तु शुद्धे पुरुषार्थसिद्धिः ॥ ७० ॥
अन्यत्र मोक्षाद् नहि वास्तवं शं मोक्षश्च देहश्च मिथो विरुद्धौ । · मुमुक्षवस्तेन न देहमोहं कुर्वन्ति, कुर्वन्ति बुभुक्षवस्तु ॥ ७१ ॥
येनैव देहेन विवेकहीनाः संसारबीजं परिपोषयन्ति । तेनैव देहेन विवेकभाजः संसारबीजं परिशोषयन्ति ।। ७२ ।।
मिष्टान्नभोगं कुरुतः समानं द्वौ पुरुषावेकतरस्तु तत्र । बध्नाति कर्माणि, निहन्ति चान्यो मोहे विवेके च विजृम्भमाणे ॥ ७३ ॥
चेद्र धावतो जीववधो न जातो जातः पुनः पश्यत एव यातः । तथापि हिंसाकलमादिमे स्याद् मूढे, द्वितीये न धृतोपयोगे ||७४ || शरीरमेवाऽऽत्मतया विदन्तो विदन्ति नैतत् खलु - " कोऽहमस्मि " | इदं जगत् विस्मृतवत् स्वमेव स्वस्मिन् भ्रमः स्फूर्जति कीदृशोऽयम् ? ॥ ७५ ॥
रागं च रोषं च परत्र कृत्वा कथं वृथा हारयसे भवं भोः ! माध्यस्थ्यमे वाऽऽश्रय चेत् सुखेच्छा माध्यस्थ्यजं शर्मं परानपेक्षम् ॥ ७६ ॥
परोन्नतौ किं परिखिद्यसे त्वं परक्षतौ किं वहसे प्रमोदम् ? | स्पृशन्ति नान्यं तव दुर्विकल्पास्त्वामेव बध्नन्ति तु कर्मपाशैः ॥७७॥
परोन्नतौ चेत् तव दुष्प्रयत्नैः क्षतिर्भवेत् कस्तव तत्र लाभः ? | न स्यात् क्षतिस्तर्ह्यपि को नु लाभस्तत्तापहे नून् त्यज दुर्विकल्पान् ॥ ७८ ॥
जागर्त्ति पुण्यं प्रबलं यदीयं प्रवर्धमानेऽभ्युदये तदीये । कोऽस्त्यन्यथाकर्तुमलं सुरोऽपि नेष्य ततः क्वापि करोतु धोमान्
॥ ७९ ॥