________________
अस्ति त्रिलोक्यामपि कःशरण्यो जीवस्य नानाविधदुःखभाजः । धर्मः शरण्योऽपि न सेव्यते चेद् दुःखप्रहाणं लभतां कुतस्त्यम्॥५७॥ संसारदावानलदाहतप्त आत्मैष धर्मोपवनं श्रयेच्चेत् । क्ष तहि दुःखानुभवावकाशः कीदृक्तमो भास्वति भासमाने?||५८॥ मातेव पुष्णाति पितेव पाति भ्रातेव च स्निह्यति मित्रवञ्च । प्रोणाति धर्मः परिषेवितस्तद् अनादरः साम्प्रतमस्य नैव ॥१९॥ सौस्थ्यं धनित्वं प्रतिभा यशश्च लब्ध्वा सुखस्यानुभवं करोषि । यस्य प्रभावेण तमेव धर्ममुपेक्षमाणो नहि लजसे किम् ? ॥६०॥ इच्छन्ति धर्मस्य फलं तु सर्वे कुर्वन्ति नामुं पुनरादरेण । नेच्छन्ति पापस्य फलं तु केऽपि कुर्वन्ति पापं तु महादरेण ॥६॥ इष्यन्तं आम्रस्य फलानि चेत् तत् तद्रक्षणादि प्रविधेयमेव । एवं च लक्ष्म्यादिफलाय कार्यां कुर्वन्त्यबोधा न हि धर्मरक्षाम्॥६२॥ सुखस्य मूलं खलु धर्म एवच्छिन्ने च मूले क्व फलोपलम्भः ? । आरूढशाखाविनिकृन्तनं तद् यद् धर्ममुन्मुच्य सुखानुषङ्गः ॥६३।। करोषि यत् त्वं वपुषः सदैव पोषाय चालङ्करणाय चेहाम् ।। प्रतिग्रहः किं नु फलस्य देहाद वितर्कितश्चेतसि वर्त्तते ते ? ॥६॥ भुक्तानि भोज्यानि सुरोचकानि पीतानि पेयानि रसाद्भतानि । यदा बहिस्तात् क्षिपते शरीरं तदा विरूपत्वममीषु कीदृक? ॥६५॥ रसायनं सेवतु* सर्वदापि भुक्तां पुनः पौष्टिकभोजनानि । तथापि नो नक्ष्यति देहकुम्भे भस्मावशेषीभवनस्वभावः ॥६६।। तैलेन सम्मनितो यथावत् स्नानात् जलेनोत्तमगन्धिना च । सुराघटादप्यतिनिन्ध एष कायोऽशुचिः किं भविता पवित्रः॥६७॥ रोगैः प्रपूर्ण भविनां शरीरमन्तःस्थितेष्वेषु जनो मदान्धः । यदा बहिस्ते प्रकटीभवन्ति दीनाननः पश्यति दुःखमेव ॥६८॥
* · सेव् ' धातोः परस्मैपदित्वे सुलभाः शिष्टप्रयोगाः ।