________________
RESEEEEEEEEEEEEEEEEEEER
EEEEEEEEEEEE
AEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEER निमंत्रell सामाधारी निरन्तराभिलाषश्च तत्र प्रवृतिजनक इति तेऽयोग्या अपि तत्तत्कार्ये प्रवृतिं करिष्यन्तीति शिष्याक्षेपं निराकुर्वन्नाह है र ग्रन्थकृत् । इच्छाऽविच्छेओ विय ण तारिसो जोग्गयं विणा भद्दो । भद्दा कहिणु इच्छा उज्जू वंको य दो मग्गा ॥५॥
पाटलिपुत्रं जिगमिषुः कश्चिन्मार्गे गच्छन्नग्रे द्वौ मार्गों पश्यति । एकस्तावत्सरलो मार्गः, येन शीघ्रमेव पाटलिपुत्रं गम्यते । अपरश्च पाटलिपुत्राभिमुखोऽपि वक्रो मार्गः, येन महता कालेन पाटलिपुत्रं गम्यते । 1 कदाचिन्मार्गविघ्ने सति नापि गम्यते । यश्च पथिकः प्राज्ञो भवति । स सरलेनैव मार्गेन गच्छति । यो पुनः र स्वयमेव वक्रो भवति । स तु चिन्तयति "गच्छाम्यहं वक्रेण मार्गेण, "स कीदृशो मार्ग ?" इति जानामि ।।
सरलेन मार्गेण तु सर्वे एव गच्छन्ति, न तत्र पराक्रमः । यः पुनर्मत्सदृशो वक्रमार्गेण गच्छेत् । स एव पराक्रमी A भवेद्" इत्यादि । एवञ्च वक्रमार्गमाश्रयन्स महादुःखी भवति । महता च कालेन पाटलिपुत्र प्राप्नोति । व मोक्षनगरे जिगमिषूणां साधूनां मध्ये हि यस्य यस्मिन्योगे पात्रताऽभिरुचिश्च, स एव योगस्तस्य साधोः सरलो मार्गः कथ्यते । यस्य यस्मिन्योगे पात्रताऽभिरुचिश्च नास्ति, स योगस्तं साधुमाश्रित्य वक्रो मार्गो भण्यते ।
आचार्यो हि सर्वेषां साधूनां सकाशान्महानस्ति । यदि स आचार्यो निमन्त्रणां कृत्वा साधूनां वैयावृत्यं । र कुर्यात् । तदा लोको जिनशासनं निन्देत् यथा “पश्यत । जिनशासनस्याचार्याः कर्मकरा इव दृश्यन्ते । लोके से तावत्पुत्राः पितरं भजन्ते । लोकोत्तरे तु जिनशासने पितृतुल्या आचार्याः पुत्रकल्पानां साधूनां वैयावृत्यं कुर्वन्ति।
अहो जिनशासने शोभनो विनयगुणः प्रतिपादितः । युक्तमेव जिनशासनस्य लोकोत्तरत्वं । यदत्र लोकविपरीत
मेवाचरणं दृश्यते" इत्यादि । इत्थञ्च जिनशासननिन्दा, लोकानां बोधिदुर्लभता, तन्निमित्तस्याचार्यस्य 3 बोधिदुर्लभता, गच्छवासिनां साधूनामाचार्याशातना, विनयगुणध्वंसश्चेत्यादयो बहवो दोषा भवन्ति । क तस्माद्यद्यप्याचार्यः परेषां वैयावृत्यकरणे शक्तिमारुचिर्मांश्च संभवेत् । तथापि तस्य तत्र पात्रता नास्तीति
तेन वैयावृत्यकरणाभिलाषो नैव कर्तव्यः । वैयावृत्यकतॄणां पुनरनुमोदनन्तु स करोत्येव । तेनैव च। र वैयावृत्यकरणजन्यं गुणमासादयति ।
एवं ये मन्दक्षयोपशमा अध्ययनाध्यापनशक्तिविकला वैयावृत्यादावेव पात्रतावन्तो भवन्ति, ते यदि गुर्वादिकमध्यापनादिकार्यकर्तारं दृष्ट्वाऽभिलषेयुः, यथा "वयमपि साधून्नध्यापयेम । जिनशासनप्रभावनार्थं व्याख्यानं कुर्मः । समग्रगच्छस्य सञ्चालनं कुर्मः" इत्यादि । तदा यद्यपि तेषामभिरुचिरस्ति । तथापि पात्रता : नास्ति । यतस्ते यद्यध्यापनादिकं कुर्युः, तदा क्षयोपशमाभावाज्जिनवचनविपरीतमेव वदेयुः । न वा जिनवचनं स्थापयितुं शक्नुयुः । श्रोतादयश्च तेषां मूढतां दृष्ट्वा हसेयुः । तस्मात्तेषामध्यापनादिष्वभिलाषनिरन्तरता नैव से युक्ता।
तथा पूर्वजन्मनि कृताया आराधनाया अनुसारेण केचित्साधवः स्वाध्याये तीव्ररुचिमन्तो भवन्ति ।। अन्ययोगेषु पुनस्तेषां शुभोऽप्यध्यवसाय: स्वाध्याययोगाध्यवसायसदृशो नैव वर्धते । केचित्पुनः साधवो ध्याने केचिद्वा वैयावृत्ये केचित्पुनरध्यापने तीव्ररुचिमन्तो भवन्ति । यद्यप्यतेषां साधूनामन्ययोगेषु
EEEEEEEEEEEEEEEEEE
र महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १८८B MerceduresIEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEMB