________________
प्रतिपृच्छा सामाधारी
भवति ।
तथाऽऽपृच्छा हि कर्तुमिष्टस्य कार्यस्य शास्त्रीयविधिं ज्ञातुमिच्छन्शिष्यः करोति । प्रतिपृच्छा तु विधिज्ञानार्थं । न क्रियते । किन्तु कदाचित्तत्कार्यं कृतमेव भवेत्, कदाचिदन्यत्कार्यमापतितं भवेत्, कदाचिद्विवक्षितस्यैव कार्यस्य विशिष्टत्वं भवेत् । तदेतद्ज्ञातुमिच्छन् शिष्यः प्रतिपृच्छां करोति । इत्थञ्चापृच्छाप्रतिपृच्छयोः कार्य भिन्नमस्तीति तयोर्भेदो भवति । ___ यदि च "प्रतिपृच्छाऽपि तत्वत आपृच्छैवेति साऽऽपृच्छासामाचार्येव" इति कदाग्रहो भवेत्, तदा तु साऽऽपृच्छाऽपि तत्वत इच्छाकाररूपैव भविष्यति । "गुरो ! भवदुपदिष्टं कार्यमहमिच्छया करोमि, किन्तु । कुतश्चित्कारणान्न कर्तुं पारयामि" इत्यादिरूपा प्रतिपादिताऽऽपृच्छेच्छाकाररूपैव । किन्तु यथा केनचिद्विशेष-। प्रकारेणापृच्छाऽपीच्छाकाराद्भिन्ना मन्यते । तथैव प्रतिपृच्छाऽप्यापृच्छाभिन्नैव मन्तव्या। एतत्सर्वं प्राक्प्रपञ्चतः प्रतिपादितमेव ॥४३॥
सप्तमी प्रतिपृच्छासामाचारी समाप्ता
66666666666666666666666666666666666666666666
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १७७ MERO5000000000000000000000000000RRESTERRIGHTTES8508805ERRE