________________
RSSHEORESISGGROU58888888000000000GBERRORRECESSARRESTEGORITESTRATEGGC
SATTISATISATERImEना सामाचारी
__ अधुनाऽष्टमी छंदनासामाचारी निरूप्यते । गुस्आणाइ जहरिहं दाणं साहूण पुव्वगहिअस्स । छंदणसामाचारी विसेसविसया मुणेयव्वा ॥४४॥ ___साधुभिक्षाटनं कृत्वाऽशनादिकं समानीय प्रथमं तावद्गुरुप्रायोग्यं द्रव्यं गुरवे भक्तिभावेन प्रयच्छति । गुरुस्तु यथेच्छं तत्स्वीकरोति । पश्चात्सः शिष्यो गुरुं कथयति → गुरो ! यदि भवाननुजानीत, तदाऽहमन्यसाधुभ्यो मदशनादिकं दत्त्वा कृतार्थो भवामि - इति । यदि च गुरुस्तथाविधकारणवशान्निषेधं कुर्यात् । तदा तु स शिष्यो भक्तिभावेनापि साधुभ्यो भक्तादिकं दातुं योग्यो न भवति । यदि च गुरुरनुजानीयात् । तहि सः शिष्यः । शास्त्रप्रतिपादितक्रमेण बालग्लानादिसाधूनां समीपे गत्वा निवेदयति यथा → अमुकममुकं द्रव्यं मयाऽऽनीतमस्ति । यदि भवतां तस्य प्रयोजनमस्ति । तन्ममोपरि कुरुष्वानुग्रहं । गृह्णतु भवान्यथेच्छं द्रव्यं, येन मम चारित्रजीवनं सफलं स्यात् । दुर्लभं खलु सुसाधूनां भक्तिकरणम् - इति । इदञ्च निवेदनं छन्दनासामाचारी कथ्यते ।
यदि साधुनाऽशनादिकमानीतं न भवेत्, किन्तु स साधुस्तदाऽशनादिकमानेतुं गच्छन्नेव गुरोरनुज्ञां गृहीत्वाऽन्यं साधु कथयेत् यथा → किमहमानयामि भवदर्थं प्रायोग्यमशनादिकम् - इति । तदा सा
छन्दनासामाचारी न भवति । यतो पूर्वमानीतस्यैवाशनादेः साधुं प्रति ग्रहणाय निमन्त्रणं छन्दना भवति । 1 एवं पूर्वमानीतमप्यशनादिकं गुरोरनुज्ञामगृहीत्वैवान्यं साधुं प्रति ग्रहणाय यदि निवेदयेत्, तदापि सा 3 छन्दनासामाचारी न भवति । ____ गुरोरनुज्ञां गृहीत्वा बालग्लानादिक्रममुल्लङ्घय स्वमित्रादीन्साधून् प्रथमं पूर्वानीतस्याशनादेनिमन्त्रणं कुर्वन्नपि साधुश्छन्दनसामाचारीपालको न भवति ।
गुरोरनुज्ञां गृहीत्वाऽपि "कुरुष्वानुग्रहं ममोपरि, गृहाण यथोचित्तं मदानीतमशनादिकम्" इत्यादिरूपां। निमन्त्रणामकृत्वैव पूर्वानीतमशनादिकं बालादिक्रमेण ददन्नपि साधुश्छन्दनासामाचारीमान् नैव भवति । __गुरोरनुज्ञा, शास्त्रप्रतिपादितः क्रमः, लोकोत्तरव्यवहारपालनरूपा च शोभनवचनात्मिका निमन्त्रणा एतत्त्रयाणां मध्ये एकमपि उपेक्षणीयं न भवति । यतः तदुपेक्षायां तत्वतः स उपेक्षक आत्महितस्यैवोपेक्षां कुर्वाणो भवतीति त्रयाणां मध्येऽन्यतमस्याप्यभावे छन्दनासामाचारी तिरस्कृता भवतीति हृदयम् । ____ अत्र दशसामाचारीषु प्रकृता छन्दनासामाचारी न सर्वेषां साधूनामुचिता । किन्तु केषाञ्चिदेव साधूनामत्र छन्दनासामाचारीपरिपालनेऽधिकारो भवति ॥४४॥ ____एतदेव स्पष्टयति । 1 एसा जमत्तलद्धियविसिट्ठतवकारगाइजइजुग्गा । अहियगहणं च तेसिं अणुग्गहढे अणुण्णायं ॥४५॥ ___यो मुनिर्लाभान्तरायकर्मणस्तीव्रक्षयोपशमवान् सन् प्रभूतानां प्रायोग्यानामशनादिकानां लाभे शक्तिमान्भवति,
स आत्मलब्धिक आत्तलब्धिको वा भण्यते । स हि लाभान्तरायक्षयोपशमवान्यदा यत्र गोचरी आनेतु गच्छति।। 1 तदा तत्र निर्दोषानां प्रायोग्यानामशनादिकानां तस्य लाभो भवति । एतादृशो हि साधुश्छन्दनासामाचारी
EEEEEEEEEEEEEEEEEEEEEE
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १७७