SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ પ્રતિપૃચ્છા સામાચારી विपुलनिर्जराया प्रच्यवश्च भवति ← इति ॥४१॥ शिष्यः प्रश्यनति → ननु साधुर्वर्तमानकाले एव करणीयस्य कार्यस्यापृच्छां कृत्वा कदाचित्कारणवशाद्वर्तमानकाले न कुर्यात् । किन्तु भविष्यत्काले कुर्यात् । यथा " अधुनैवामुकग्रन्थं प्रारभेऽहम्" इत्यापृच्छां कृत्वा पश्चात् तट्टटीकाया अलब्धत्वाद् द्वितीयदिने यदा सा टीका प्राप्यते, तदा स साधुर्ग्रन्थारम्भं कुर्यात्" तदा यदि स पुनरपि गुरुं नापृच्छेत् । तर्हि यद्यपि तेन प्रतिपृच्छासामाचारी न परिपालिता । किन्तु पूर्वदिने तेन साधुनाऽऽपृच्छा सामाचारी तु पालितैवेति यद्यपि तस्य प्रतिपृच्छासामाचारीजन्या विपुलनिर्जरा न भवतु, किन्त्वापृच्छासामाचारीजन्या तु विपुलनिर्जरा भवति न वा ? ← इति । अथवा भविष्यत्काल एव करिष्यमाणस्य कार्यस्यापृच्छां कृत्वा तस्मिन्काले समागते सति प्रतिपृच्छां विनैव स साधुर्यदि तत्कार्यं कुर्यात् । तदा तस्य प्रतिपृच्छासामाचारीपालनजन्या निर्जरा मा भवतु, किन्तु प्राकृताया आपृच्छासामाचार्याः फलं तस्य सम्पद्यते न वा ? ← इति । आचार्यः प्रत्युत्तरयति । इहयं आपुच्छा खलु पडिपुच्छाए करेइ उवयारं । फलमिट्टं साहेउं णेव सतंतत्तणं वइ ॥४२॥ यदा वर्तमानकाले कर्तव्यस्य कार्यस्यापृच्छां कृत्वा वर्तमानकाल एव तत्कार्यं क्रियते, तदैवापृच्छासामाचारी गण्यते, तदैव चापृच्छासामाचारीजन्या विपुलनिर्जरा भवति । यदा तु भविष्यत्काले करिष्यमाणस्य कार्यस्यापृच्छा क्रियते, यदा वा वर्तमानकाले करणीयस्य कार्यस्यापृच्छां कृत्वा कुतश्चित्कारणात्तत्कार्यं भविष्यत्काले क्रियते, तदाऽऽपृच्छासामाचार्या अवसर एव न गण्यते । ततश्च तदा शिष्येण प्रथमं कृताऽप्यापृच्छा सामाचारीरुपा नैव भवति । अत एव तस्य प्रथमं कृताया आपृच्छायाः फलं नैव भवतीति दृष्टव्यम् । यदि च स एकामापृच्छां कृत्वा भविष्यत्काले कार्यकरणयोग्ये समागते सति पुनरापृच्छां कुर्यात्, तदैव सा प्रतिपृच्छासामाचारी भण्यते । तस्य च विपुलनिर्जरा भवति । पुनरापृच्छाऽभावे तु नैव प्रतिपृच्छा, न वाऽऽपृच्छा इति सूक्ष्मधिया विभावनीयम् ॥४२॥ नन्वेवं प्रतिपृच्छाऽऽपृच्छासामाचार्योर्भेद एव कथं गण्यते ? आपृच्छैव प्रतिपृच्छारूपा यदि भवति, तदा प्रतिपृच्छासामाचारी न गणनीया । आपृच्छैव गणनीयेति शिष्यस्याशङ्कामपनेतुमाह । णय एसा पुच्छ च्चिय उवाहिभेया य कज्जभेयवसा । अण्णह कहं ण पविसे इच्छाकारस्स कुच्छिसि ॥४३॥ यद्यपि याऽनन्तरं प्रतिपृच्छासामाचारी प्रतिपादिता, सा तत्वतस्त्वापृच्छैव । तथापि लक्षणभेदात्कार्यभेदाच्च प्रतिपृच्छा पृथग्गणनीया । अयं भावः । गुरुणा पूर्वम् प्रतिपादितानां कार्याणां भविष्यत्काले करणं यदा भवेत् तदा क्रियमाणाऽऽपृच्छा प्रतिपृच्छा । एवं प्रतिपादितेषु सर्वेषु प्रतिपृच्छास्थानेषु यथायोगं वक्तव्यम् । वर्तमानकाले करणीयमेव कार्यं यदा शिष्यो गुरुमापृच्छेत् तदा सैवापृच्छाऽऽपृच्छासामाचारी भवति । इत्थञ्च द्वयोर्लक्षणं भिन्नमेवेति तयोरपि भेदो महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १७५
SR No.022207
Book TitleSamachari Prakaran Part 02
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages278
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy