________________
HA
ITTENAMEETTERTAINMENT प्रतिपूछ। सामायारी कार्येषु समुत्पत्स्यमानानां विघ्नानां ज्ञापकं दुनिमितं जनयेत् । अत एव तेषु कार्येषु समुत्पत्स्यमानानां विघ्नानामज्ञातारो जना निःशङ्कं तेषु प्रवर्तन्ते । तत्र च महान्तो विघ्ना समापतन्ति । ततश्च तेषां प्रयत्नो निष्फलो भवति, कार्यं नैव भवति ।
ये तु केचित्तथाविधशुभकर्मयुक्ता जना भवन्ति । ते यदा येषु स्वकार्येषु प्रवर्तन्ते, तेषु यदि तेषां। जनानामशुभकर्मोदयेन विघ्ना समुत्पत्स्यमाना भवेयुः, तदा तत्शुभकर्म कार्यप्रारम्भे तान्जनान्दुनिमित्तं दर्शयति → मा यूयमेतत्कार्ये प्रवर्तत, यतो भवतामशुभकर्मोदयेनात्र महान्तो विघ्ना समागमिष्यन्ति । ततश्च न यूयं सफला रु भविष्यत - इति कथयतीव ।
किन्तु "विनाशकाले विपरीतबुद्धिः" इति न्यायाद्यदि तेषां विघ्नजन्यदुःखमवश्यम्भावि भवेत् । तर्हि ते र दुनिमित्तं पश्यन्तोऽपि, तद्विपाकं च जानन्तोऽपि मूढतामवलम्ब्य तत्रैव कार्ये प्रवर्तन्ते । विघ्नाश्च समापतन्ति। ते च महदुःखं प्राप्नुवन्ति । अत एव युद्धस्य चरमदिने रावणो दुनिमित्तं दृष्ट्वाऽपि न निवृत्तोऽपि तु युद्धभूमौ । प्रविष्टस्तत्र च मृतः।
ये तु विशिष्टपुण्योदयवन्तो भवन्ति । ते येषु कार्येषु प्रवर्तन्ते । तेषु यदि विघ्नाः समापतिष्यमाणा भवेयुः, 8 तदा तेषां शुभकर्म कार्यप्रारम्भे पुण्यवतस्तान्दुर्निमित्तं दर्शयति, कार्याच्च निवारयति । तेऽपि दुनिमित्तं दृष्ट्वा । ३ भाविनो विघ्नान्ज्ञात्वा निवर्तन्ते, सुखभाजश्च भवन्ति ।।
तथा नमस्कारमहामन्त्रादिरूपं मङ्गलं विघ्नजनकानां कुकर्माणां विनाशकं भवति । ततस्ते पुण्यवन्तो की दुनिमित्तं दृष्ट्वा स्वस्य कुकर्म निश्चिन्वन्ति । तन्नाशाय च नमस्कारमहामन्त्रादिमङ्गलं कृत्वा पुनः कार्येषु
प्रवर्तन्ते । यदि च मङ्गलेन कुकर्माणि विनश्येयुः, तदा दुनिमित्तं नापतेत् । ततश्च निःशङ्कास्ते तत्र प्रवर्तन्ते । र यदि च कुकर्माणि विचित्रशक्तिमन्ति स्युः, मङ्गलञ्च तन्नाशाय समर्थं न भवेत् । स्वयमेव वा तन्मङ्गलं दुर्बलं
भवेत् । तदा तु ते कुकर्माणि न विनश्येयुः । ततश्च आपतति दुर्निमित्तं । ते य पुण्यवन्तो जनाः पुनर्मङ्गलं र कुर्वन्ति । पुनः प्रवर्तन्ते । पुनटुंनिर्मित्तमापतेद्यदि, तदा निवर्तन्ते, तदभावे प्रवर्तन्त इति ।
इत्थञ्च दुर्निमित्तं पुण्यशालिनां पुण्योदयेनैव समापततीति सिद्धम् ।
तथा यदा गुरुणा पूर्वं निषिद्धमपि कार्यं तथाविधप्रसङ्गवशात्करणीयं भवति, तदापि प्रतिपृच्छासामाचारी रु करणीयेति प्रागुक्तमेवेति न पुनः प्रतन्यते ।
किञ्चारैतदपि दृष्टव्यम् → शिष्यो यदा भविष्यत्कालीनकार्यस्यापृच्छां करोति यथा → अहम् ही पर्युषणाऽनन्तरममुकग्रन्थं पठिष्यामि, श्वो वैद्यचिकित्सां करिष्यामि" इत्यादि । तदा स शिष्यो यदि कार्यकाले र प्राप्ते गुरुं पुनरापृच्छेत्, तर्हि साऽऽपृच्छाऽऽपि प्रतिपृच्छासामाचारी गण्यते । यदि च शिष्यस्तत्कालीनमेव
कार्यमापृच्छति, तदैव च करोति, तदा तृ प्रतिपृच्छाया अवसर एव नास्तीति साऽऽपृच्छासामाचारी गण्यते । 1 तस्मान्मुहूर्तादिरूपे भविष्यत्काले करिष्यमाणस्य कार्यस्यापृच्छां कुर्वता साधुना तस्मिन्काले समागते सति
पुनरपि तस्यैव कार्यस्यापृच्छा कर्तव्यैव । सा चापृच्छा प्रतिपृच्छासामाचारी भवतीति तात्पर्यम् । यदि च स शिष्यः पुनरापृच्छामकृत्वैव कार्यं कुर्यात्, तदा सामाचारीभङ्गजन्यः प्रत्यपायः, सामाचारीपालनजन्याया।
FEE
EEEEEECCLEGE CECELECCEECECECCEECCLETE
EEEEEEEEEEEEEEEEEEE
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १७४ MERCISITOREGISSESSUE88888888THESERTRESSETTEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEB