________________
EEEEEEEEEEEEEEEEEEEEE 3000300036
1655
RRIERIERRITERATION
प्रतिपूछ। सामायारी LLY पतितम् । ते च निश्चिन्वन्ति यथा “अवश्यमत्र विहारे महत्तमस्य विघ्नस्य संभवोऽस्ति । अत एव त्रिर्वारं कृतंक मङ्गलमप्यत्र निष्फलमभूत् । न हि शोभनमपि मङ्गलं तथाविधमहत्तमविघ्नविघातकं भवति । तत्किमधुना कर्तव्यम् ? किं वाऽनेन चिन्तनेन ? गुरुमेव सर्वं प्रसङ्गं कथयामो वयं । पश्चात्स यदादिशेत्, तदेव करिष्यामः, गीतार्थसंविग्नश्चासौ गुरुः, न हि स अस्माकमहितं कदाचिदपि कुर्याद्" इति । इत्थञ्च तदापि प्रतिपृच्छासामाचारी क्रियते । गुरोः पार्वे गत्वाऽऽपृच्छ्यते यथा → गुरो ! वयं विहारमकुर्म । किन्तु तत्रैतादृशः व्यतिकरः सञ्जातः। तस्माद्यूयमेव वदथ, किमधुना युष्मत्परतन्त्रैरस्माभिः कर्तव्यम् - इति ।
शिष्यः प्राह - ननु गुरुस्तु तदा किं कुर्यात् ? किं तान् विहारात् निवारयेत् ? किं वाऽपशकुने सत्यपि । तान्विहारयेत् ? इति । ___ आचार्यः कथयति – यदि स तादृग्ज्ञानवान्स्यात्, येन ज्ञानेन गुरुः "एतेषां साधुनां महान्विघ्नो भविष्यति न वा" इति ज्ञातुं समर्थो भवेत् । तदा तेन ज्ञानेन यदि तेषां विघ्नसंभवो ज्ञायेत, तदा तु तानिवारयेदेव । यदि 1 च "अमुकमङ्गलादिकरणेन विघ्नविनाश: संभवेद्" इति ज्ञायेत, तदा तु तन्मङ्गलं कारयित्वा विहारं कारयेत् ।। यदि च तथाविधं ज्ञानं तस्य गुरोर्नास्ति । तदा तु स शकुनग्रहणं कारयित्वा दुनिमित्ताभावे विहारयेत् । शकुनग्रहणं यदि न भवेत्, किन्तु दुनिमित्तमेवापतेत्, तदा तु निवारयेदेव । एकं द्वौ वाऽधिकान्वा दिवसान्यावत्तत्रैव रक्षेत्, १ तदनन्तरं पुनरपि विहारं कारयेत् । किं वा बहुना ? गीतार्थसंविग्नाय गुरवे यद्रोचेत, तदेव स कुर्यात् । न हि तत्र कश्चिद्दोषः।
ननु दुनिमित्तापात: किमशुभकर्मण उदयेनैव भवति ? किं वाऽन्यथैवेति चेत् बहवो जना एतदेव मन्यन्ते । यदुत "दुनिमित्तागमनमशुभकर्मोदयेन भवति, तच्च दुनिमित्तं विघ्नोत्पादकं भवति" इति । किन्तु भ्रमोऽयम् । भवन्तमेवाहं पृच्छामि, तथाविधरोगग्रस्तं रोगिणं दृष्ट्वा परोपकारी वैद्यस्तं कथयेत् यथा “त्वया कदापि दधि। न भोक्तव्यम् । भवत्शरीरे तथाविधो रोगो वर्तते, येन दधिभक्षणे तव मरणमेव स्याद्" इति । तत्र यदि स रोगी वैद्यवचनमवगणय्य दधि खादेत्, ततश्च म्रियते । तर्हि किं वैद्यनासौ मारित इति वक्तुं शक्यते ? नैव शक्यते। तत्र तु सज्जना इदमेव ब्रूवन्ति - यथा वैद्यस्तु महोपकारी, येन तस्मै रोगिणे सम्यशिक्षा दत्ता । न हि वैद्यनासौर मारितः, किन्तु वैद्यवचनमवगणयन्स स्वप्रमादेनैव मृतः । जगति तथाविधरोगग्रस्ता बहवो जना विद्यन्ते, येषां महोपकारिवैद्यस्य प्राप्तिर्न भवति । ते तु मन्दभाग्याः पथ्यापथ्यविवेकमजानानाः कुपथ्यं संसेव्य स्वयमेव नियन्ते । अयन्तु रोगी यद्यपि महाभाग्यवानासीत्, यस्य सम्यशिक्षादातुः वैद्यस्य प्राप्तिरभवत् । किन्तु महाभाग्यवानपि स मन्दभाग्यवान् । येन तस्य वचनं तिरस्कृतम्" इति । ____ अत्र हि विहारादिकार्येषु ये मार्गभ्रमादयो विघ्ना उत्पद्यन्ते । ते मरणसदृशाः, तादृशविघ्नानां समुत्पादकं । जीवानां कर्म तु तथाविधरोगसदृशम् । विहारादिकार्यकरणन्तु दधिभक्षणतुल्यम् । तथाविधाशुभकर्मयुक्ताश्च जीवा तथाविधरोगयुक्तजीवसमानाः । दुनिमित्तं तु महोपकारिवैद्यस्य सदृशम् । दुनिमित्तस्याकर्षकं जीवानां शुभकर्म तु महोपकारिवैद्यप्राप्तिकारकपुण्यकर्मसदृशम् ।
प्रायोऽत्र जगति बहवो जनाः प्रभूतेषु कार्येषु प्रवर्तन्ते । परं तेषां तथाविधं शुभकर्म नास्ति, यत्कर्म तेषु ।
CEEEEEEEE
FEEEEEEE
HSSIRSISTERSITIES
EGESECREECEEEEEEEEEEECECCOOCOOEEDECEG
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १७३।