________________
DURGEGREGGERBERGGGGERGESTEREOGLEGE
GEEEEEEEEEEEEEEEEEEEE
S INEERINEERINEERINTERIOR RIERRENETIRENDER प्रतिपृच्छा सामाचारी ,
यदि शिष्यो गुरुमापृच्छ्यैव गच्छेत्, तदा तु गुरुर्यथाज्ञातं सर्वमपि तस्मै कथयेत् यथा “न कुरुष्व विहारं, 2 स ग्लानो मृतः । अत्रैव वाऽऽगच्छति । अन्ये वा वैयावृत्यकराः समागताः । न भवतस्तत्राधुना प्रयोजनम्" 1 इत्यादि । एवञ्च शिष्यस्य निरर्थकं गमनं न भवेत् । एवं सर्वत्रापि प्रतिपृच्छा हितकारिणी भवतीति स्वयमेव चिन्तनीयम् ।
गुरवः खलु गीतार्था अनुभवज्ञानिनश्च भवन्ति । तस्मात्तान् प्रत्यापृच्छाप्रतिपृच्छाकरणे तेषामनुभवज्ञानस्यापि लाभः शिष्यस्य संभवति ।
- मुग्धजीवानामनुग्रहार्थमन्योऽपि दृष्टान्तः प्रतिपाद्यते । ___तथा हि – गुरुः कस्मैचित्साधवे निवेदयति, यथा “शिष्य ! अधुना त्वं काव्यं पठसि, काव्यं पठित्वा । भवता विशेषावश्यकभाष्यं पठनीयम्" इति । स च शिष्यः पञ्चदशदिनमध्ये काव्यं समाप्य गुरुमनापृच्छ्यैव विशेषावश्यकस्य कोट्याचार्यविरचितटीकासहितं पुस्तकमानीय पठितुमारभते । सा च टीका तस्य दुर्गाह्या भवेत्, ततश्च शिष्यस्य विशेषावश्यकपठनस्योल्लासो विनश्येत् । ___यदि स काव्यसमाप्त्यनन्तरं गुरुमापृच्छेत् यथा → गुरो ! काव्यं समाप्तं, अधुना भवत्कथनानुसारेणाहं विशेषावश्यकभाष्यं पठामि किम् - इति । तदा गुरुः कथयेत् "शिष्य ! विशेषावश्यकस्य तिस्रष्टीकाः सन्ति। तत्र स्वोपज्ञटीका कोट्याचार्यटीका च दुर्गाह्याऽस्ति । किन्तु मलधारिहेमचन्द्रसूरे:टीकाऽतीवसरला । तस्मात्तामेव पठ, तथा तस्य गुर्जरभाषान्तरमपि विद्यते, तदपि समानय" इति । ततश्च तस्य पठनं सुकरं भविष्यतीति । इत्थञ्च सम्यगनुभवज्ञानं प्राप्य तथैव कुर्वाणो विशेषावश्यकभाष्यस्य गूढार्थान् सुखं जानाति । गुरोश्चोपरि तस्य । बहुमानमतीव वर्धते । एवञ्च प्रतिपृच्छासामाचारी प्रत्यक्षतोऽपि महत्फलदायिनी दृश्यते । तस्मात्तत्र तीव्रप्रयत्नो विधेयः, प्रमादो न करणीयः ॥४०॥
__ननु किं प्रतिपादितेष्वेव प्रकारेषु प्रतिपृच्छा क्रियते, यद्वाऽन्योऽपि कश्चित्प्रकारोऽस्तीति शिष्यस्याशङ्कां। से दूरीकर्तुं प्रकारान्तरं दर्शयति ।
खलणाइ पवित्तीए तिखुत्तो अहव विहिपओगे वि । पुव्वणिसिद्धे अण्णे पडिपुच्छमुवटिए बिंति ॥४१॥ ___ गुरुस्तावत्रीन् पञ्च सप्त वा साधून् अन्यत्र मासकल्पकरणार्थं ज्ञानोपार्जनार्थं वैयावृत्याद्यर्थं वा प्रेषयति । ते च साधवो गुरोरनुज्ञां गृहीत्वा विहारार्थं निर्गताः । किन्तु तदैव किञ्चिदुनिमित्तं समापतितं । तच्च विघ्नागमनसूचकमिति ते साधवः पुन उपाश्रये समागताः । विघ्नविनाशार्थमेकनमस्कारमहामन्त्रस्य कायोत्सर्ग कृत्वा पुनः निर्गताः, पुनरपि च किञ्चिदुनिमित्तमापतितम् । ते च महद्विघ्नसमागमनशङ्कया पुन उपाश्रये समागताः । विघ्नविघाताय नमस्कारमहामन्त्रद्वयस्य कायोत्सर्गं कृत्वा पुनर्निर्गताः । किन्तु तृतीयवारमपि दुनिमित्तमापतितम् । ते च चिन्तयन्ति, "किं कर्तव्यमिदानी, विहारकरणं हि गुर्वाज्ञा, सा चाऽवश्यं पालनीया।। दुनिमित्तञ्च भाव्यनर्थसूचकं विहारकरणं प्रतिषिध्यति । पुनस्त उपाश्रये समागताः, अद्य यावद् रत्नाधिक: साधुरग्रे चलन्नासीत् । अधुना तु रत्नाधिक: पश्चाद् भूतः, क्षुल्लकश्च साधुरग्रे चलति । "कदाचित्क्षुल्लकपुण्योदयेन विघ्नविनाशो भवेत् । ततश्च दुर्निमितं नापतेद्" इति तेषां विमर्शो भवति । किन्तु चतुर्थवारमपि दुनिमित्तमा
FROFEREGLECREGUGGGEGUES803003GEECHEREGE
SSSSSSSSSSSSSSSSS
22 महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १७२