________________
પ્રતિકૃચ્છા સામાચારી प्रवृताः साधवः । तत्र च यदि प्रातः काले प्रकाशानन्तरमेव विहारो विधीयेत । तदा तु सूर्यस्यातपादिना महत्कष्टं स्यात् । दूरदेशेऽल्प दिनमध्य एव गमनं दुःशक्यं स्यात् । तदा शिष्या गुरुं पृच्छन्ति यद्यपि प्रात:काले प्रकाशादर्वाग् भवद्भिर्विहारो निषिद्धोऽस्ति । तथापि सम्प्रति प्रकाशात्पूर्वमेव विहाराकरणे सूर्यातपादयो महान्तः प्रत्यवाया भवन्ति । दूरदेशे गमनञ्च न संभवेत् । तदभावे च तत्र भावि कार्यं न भवेदिति यद्यनुज्ञां ददाति भवान्, तदा वयं प्रकाशात्पूर्वं विहारं कुर्मः ← इति ।
तथा गुरुणा “अमुकानि कार्याण्यवश्यं कर्तव्यान्येव" इति कथितं भवेत् । यथा → मण्डल्यामेव प्रतिक्रमणं कर्तव्यम्। प्रतिदिनं द्वौ त्रीन्वा प्रहरान्यावत्स्वाध्यायः कर्तव्यः । मद्वाचनायामवश्यमागन्तव्यम् ← इत्यादि । किन्तु तथाविधकारणे समापतिते सति यदि साधुस्तत्कार्यं कर्तुं न शक्नुयात्तदा गुरुं पृच्छति यथा “अद्योपवेशनस्यापि मम शक्तिर्नास्ति । शरीरे महान्ज्वरो वर्तते । तस्माद्यदि भवाननुजानाति, तदाऽहं स्वयमेव प्रतिक्रमणं करोमि”इति । अथवा वैयावृत्यादिषु व्यापारवान् स द्वौ त्रीन्वा प्रहरान्यावत्स्वाध्यायं कर्तुमशक्नुवन् गुरुमापृच्छ्य स्वाध्यायं न करोति । अथवा रोगादिकारणे सति वाचनायामागन्तुमसमर्थः सन् गुरुमापृच्छ्य विश्रामं करोति ।
एतेषु प्रतिपादितेषु सर्वस्थानेषु क्रियमाणाऽऽपृच्छैव प्रतिपृच्छासामाचारी भण्यते । तत्र सर्वत्र शिष्यस्य मनस्येवमेव निश्चयो यदि भवेद्, यदुत "अहं तावत् गुरुमापृच्छामि, पश्चात्तु गुरुर्यदिच्छेत्, तदेवाहं करिष्यामि । नाहं गुरोरिच्छामतिक्रम्य किमपि करिष्यामि " इति । तदैव सा पृच्छा प्रतिपृच्छासामाचारी भवेत् । गुरुं प्रति बहुमानाभावे, स्वमनोविकल्पितस्यैव करणे कदाग्रहसद्भावे च सा पृच्छा प्रतिपृच्छासामाचारी नैव भवतीति बोध्यम् ।
यदा गुरुरागामिकालीनं कार्यं निवेदयति, तदा आगामिकाले समागते सति यदि शिष्यो गुरुमनापृच्छ्यैव तत्कार्यं कुर्यात् तदा तु को दोष इति शिष्यस्याशङ्कामपनेतुं ग्रन्थकृत्प्रत्युत्तरयति । तथा
गुरुणा हि प्रातः काले शिष्याय "सायंकाले त्वया विहारं कृत्वाऽमुकदेशे गन्तव्यम् । तत्र च ग्लानस्य वैयावृत्यं कर्तव्यम्" इति निवेदितमस्ति । सायंकाले गुरुमनापृच्छ्यैव यदि स शिष्यो विहारं कुर्यात्, तदा कदाचित्स ग्लान साधुस्तत्र मृतो भवेत् । कदाचिद् स एव तत्रानुकुलताऽभावात्केनाऽपि प्रकारेणात्रैवागच्छेत् । कदाचिदन्ये साधवस्तत्र वैयावृत्यकरणार्थमन्यतः समागता भवेयुः । अन्यो वा कश्चित्तादृशप्रसंगो भवेत्, येन तत्र गमनमनावश्यकमेव भवेत् । तत्प्रसङ्गश्च केनापि प्रकारेण गुरुर्ज्ञातवान् । स तु शिष्यो न जानाति । गुरुस्तु चिन्तयति यथा “यदाऽयं शिष्यस्तत्र गमनार्थं मामाप्रष्टुमागमिष्यति, तदैव कथयिष्यामि इति । शिष्यस्तु गुरुमनापृच्छ्यैव गतवान् । ततश्च तस्य गमनं निरर्थकमेव स्यात् । किञ्च कदाचिद्गुरुस्तस्यैव कार्यस्य विशेषमपि ज्ञापयेत्, यथा " त्वया तत्र गत्वा तस्य वैयावृत्यं तावदवश्यं कर्तव्यम्, किन्तु स संयमे शिथिलोऽस्तीति योग्यावसरे जिनवचनरहस्यं निरूप्य केनापि प्रकारेण संयमे दृढयत्नवान्कर्तव्यः । स तु वैयावृत्यकरस्य भवतः कथनमवश्यं स्वीकरिष्यति" इति । यदि च स शिष्य एवमेव गच्छेत्, तदा गुरुः कार्यविशेषं कथं कथयितुं शक्नुयात् ?
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १७१